संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनसंस्कृत भारती

संस्कृतेन भारतस्य गौरवं संस्कृतिः सभ्यता च।देहरादूने संस्कृतभारत्या: जनपदसम्मेलनं सम्पन्नं

संस्कृतभाषायां निहितानां विज्ञानस्य मूलभूतसंकल्पनाविषये अभवत् प्रदर्शनी ।।•।। प्रतिभागिनः भारतीयकलाधारितगीतानृत्य- नाटकादिशास्त्रीयकलाप्रदर्शितवन्तः।।•।। शैक्षिकसंस्थासु संस्कृतम् अनिवार्यं कर्तुं च पदसृजनाय अभवत् चर्चा ।।•।। संस्कृतभाषायाः पठनीयं व्याकरणं सर्वत्र स्वीकृतम्।।•।। संस्कृतभाषा मानवसमाजस्य एकीकरणाय कार्यं करोति।।

देहरादूनं। नगरनिगम-टाउनहाल इत्यत्र संस्कृतभारत्याः देहरादूनस्य एकदिवसीयजनपदसंस्कृतसम्मेलनस्य आयोजनं सञ्जातं । सम्मेलने संस्कृतभाषायां निहिताः सर्वे ज्ञान-विज्ञान-कला-संस्कृतेः विषयाः चर्चिता: अभवन्। सम्मेलनस्य उद्घाटनं टपकेश्वरमहादेवमन्दिरस्य महन्तस्वामी कृष्णगिरी, आयुर्वेदविद्वान् डॉ. विनीशगुप्ता, पार्षदः विमलगौड:, संस्कृतभारतीदेहरादूनस्य संरक्षकः डॉ. सूर्यमोहनभट्टः च दीपप्रज्ज्वलनेन अकुर्वन्।

अस्मिन् अवसरे आर्षकन्यागुरुकुलस्य विद्वद्भिः आचार्यै: पौंधागुरुकुलस्य आचार्यैः च वेदपाठः कृतः ।वक्तारः संस्कृतभाषायां निहितस्य ज्ञानपरम्परायाः विषये व्याख्यानं दत्तवन्तः, वक्तारः अवदन् यत् संस्कृतज्ञानपरम्परा भारतीयचिन्तनस्य पराकाष्ठा अस्ति। सम्मेलने संस्कृतभाषायाः प्रचारार्थं विचारा: प्रस्तुता: । सम्मेलने ज्ञानविज्ञानकलासंस्कृतिश्चचादीनां विशेषरूपेण चर्चा अभवत् ।

अस्मिन् अवसरे संस्कृतविज्ञानप्रदर्शनी अपि आयोजिता ।संस्कृतभाषायां निहितानां विज्ञानस्य मूलभूतसंकल्पनां विषये प्रदर्शनी आयोजिता । संस्कृतप्रदर्शन्यां गणितभूगोलखगोल- विज्ञानान्तरिक्षविज्ञानादिविषयेषु उत्तराखण्डराज्यविज्ञानस्य तथा प्रौद्योगिक्यनुसन्धानपरिषद: समन्वयेन प्रदर्शन्या: आयोजनं कृतं ।

तृतीयसत्रे भारतीयकलाप्रदर्शिता। अस्मिन् संस्कृतसत्रे भारतीयसंस्कृतेः परम्परायाश्च विषये प्रस्तुतिः कृता । प्रतिभागिनः भारतीयकलाधारितगीतानृत्य- नाटकादिशास्त्रीयकलाप्रदर्शितवन्तः ।
अस्मिन् सम्मेलने देहरादूनस्य विभिन्नसंस्थानां, विश्वविद्यालयानाम्, शोधसंस्थानां, विश्वविद्यालयानाम्, महाविद्यालयानाम् शैक्षणिकवैज्ञानिकसंशोधकाः भागं गृहीतवन्तः। सम्मेलनाय ४५० प्रतिनिधिभिः आवेदनं कृतम् आसीत् । सम्मेलने उत्तराखण्ड-संस्कृत-अकादमी, हरिद्वारद्वारा संस्कृतव्याख्यानमाला आयोजिता।

अस्मिन् अवसरे वक्तारः अवदन् यत् संस्कृतेन भारतस्य गौरवं तस्य संस्कृतिः सभ्यता च संस्कृतिः मूलभूतः आधारः सर्वं संस्कृतम् एव। इयं भाषा वैज्ञानिकभाषा अस्ति। अन्यभाषाणां माता अस्ति। संस्कृतभाषा सर्वविधज्ञानस्य कोष: अस्ति । संस्कृतभाषायाः पठनीयं व्याकरणं सर्वत्र स्वीकृतम् अस्ति । न केवलं संस्कृतभाषायाः अपि तु अन्यभाषायाः अपि उपयोगी भवति । वक्तारः अवदन् यत् अनेकेषु देशेषु संस्कृतस्य उपयोगितायाः महत्त्वं दीयते। संस्कृतप्रदर्शने गणितं, ज्यामितिः, चिकित्साशास्त्रम्, आयुर्वेदः, पर्यावरणम्, संस्कृतिः, प्रबन्धनम् इत्यादीनां ज्ञानविज्ञानस्य प्रदर्शनी दर्शनीया आसीत् ।
राष्ट्रियैकतायाः संस्कृतेश्च दिव्यदृष्टिः प्रदात्री संस्कृतभाषा मानवसमाजस्य एकीकरणाय कार्यं करोति ।

✓✓सम्मेलने सर्वेषु विषयक्षेत्रेषु संस्कृतविषयं समावेशयितुं बलं दत्तम् ✓✓

भाषा, चिकित्सा, तकनीकी, विधि:, विज्ञानरूपेण शिक्षायां समावेशं कर्तुं केन्द्रीयविद्यालये च सीबीएसई इत्यत्र तथा च शैक्षणिकसंस्थानादिषु संस्कृतभाषायाः अध्यापनं अनिवार्यं कृत्वा संस्कृतविद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु, सर्वेषु शैक्षणिकसंस्थासु च तत्क्षणमेव संस्कृतपदानि निर्माय निर्मितपदेषु नियुक्तिं कर्तुं आग्रहः कृतः।

सम्मेलने भागं गृहीत्वा संस्कृतगीते नृत्यमपि प्रस्तुतवन्त: । संस्कृतनाट्यस्य मञ्चनम् अपि अभवत् । अवसरेस्मिन् मुख्यशिक्षाधिकारी प्रदीपरावत:, वैज्ञानिक: डॉ. ओमप्रकाश: नौटियाल:, वरिष्ठशल्यचिकित्सक: डॉ. माधवमैठाणी, संस्कृतप्राचार्य: डॉ. रामभूषणविजलवाण:, संस्कृतभारत्या: प्रांतीयसंगठनमंत्रीगौरव शास्त्री , पूर्वप्रान्तमन्त्री संजूप्रसादध्यानी, प्रदीप: सेमवाल:, नागेन्द्रव्यास: इत्यादयः उपस्थिताः आसन्। डॉ. नवीनजसोला, श्री योगेश कुकरेती, नगरकोषाध्यक्ष:, श्री माधवपौडेल:, डॉ. आनंदजोशी, डॉ. राजेशशर्मा, महेश: उनियाल: , नीतू बलूनी, श्रीमती अनुराधा ध्यानी, डॉ. नीतू बलूनी, श्रीमती लक्ष्मी जोशी, सुश्री. शिवानीरमोला, श्रीमती ऋतुजसोला, श्रीमती वंदना सेमवाल:, श्रीमती सीमा कुकरेती, श्रीमती रिंकी पौडेल:, श्रीमती शिवशर्मा, श्रीमती भुवनेश्वरी व्यास:, डॉ. पवनमिश्र:, श्री नीतीशमैठानी, श्री संकेतकौशिक:, श्री. धीरजबिष्ट:, श्री विकासभट्ट:, श्री अजयनौटियाल:, डॉ. मोहितबडोनी, श्री सौरभखण्डूरी आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button