देहली

बालभारतीपब्लिकविद्यालये गीताश्लोकवाचनस्पर्धाया: सफलानुष्ठानम्

शिक्षां प्रति समर्पणस्य विद्यार्थिभ्य: व्यापक-समृद्ध-शैक्षिकानुभव-प्रदानस्य च प्रतिबद्धतां प्रदर्शयति। समस्तस्यापि कार्यक्रमस्य समन्वयकत्वं समवाप्तसाहित्याकादेमीयुवपुरस्कार: डॉ. युवराजभट्टराई वर्य: समभालयत्।

दिल्ल्यां सर गंगाराम-चिकित्सालय-मार्गस्थे बालभारतीपब्लिकविद्यालये ऐषमो जुलाई पञ्चविंश्यां गुरुवासरे गीता-श्लोक-वाचन-स्पर्धाया: विशिष्टम् आयोजनं जातम्, एषा स्पर्धा प्रधानाचार्यस्य श्रीलक्षवीरसहगलमहोदयस्य प्रेरणया अनुष्ठिता। यस्यां स्पर्धायां शताधिका: विद्यार्थिन: सहभागितां कृतवन्तः। एषः स्पर्धाकार्यक्रम: न केवलं विद्यालयस्य विद्यार्थिभ्य: एक: महत्त्वपूर्ण: शैक्षिक: गतिविधि: आसीत्, प्रत्युत संस्कृतम्प्रति भारतीयां संस्कृतिम्प्रति च छात्राणाम् अभिरुचे: ज्ञानस्य च संवर्धनार्थमपि एक: महत्वपूर्ण: प्रयास: आसीत्।
एतस्मिन् गीता-श्लोक-वाचन-स्पर्धा-कार्यक्रमे मुख्यातिथित्वेन प्रसिद्ध: कवि: लेखकश्च आकाशवाण्या: वरिष्ठोSधिकारी सहायको निदेशक: श्रीयुतरामावातारबैरवामहोदय: उपातिष्ठत। साकमेव प्रधानाचार्य: श्रीयुत: लक्षवीर-सहगल-महोदय:, उप-प्रधानाचार्या, विनीता-धवनवर्या मुख्याध्यापिका नीता निझारा महोदया चापि सहित छात्राणाम् उत्साह-वर्धनार्थम् उपस्थिता: आसन्। अथ च विद्यालयस्य नैके शिक्षकाश्चापि अस्मिन् अवसरे उपस्थिता: आसन्, यैः बालकानाम् उत्साहवर्धनं कृतम् कार्यक्रमस्य गरिमा चापि वर्धित:।

स्पर्धायाम् अस्यां सहभागिभि: छात्रैः श्रीमद्भगवद्गीताग्रन्थस्य प्रचितानां विभिन्नानाम् अष्टश्लोकानां वाचनं कृतम् । प्रतिभागिभि: स्वीयाद्भुत-प्रस्तुतिभि: समेSपि उपस्थिता: अतिथय: शिक्षका: दर्शकाश्च मन्त्रमुग्धीकृता:।

मुख्यातिथित्वेन समागत: आकाशवाण्या: सहायकनिदेशक:, यो हि एक: प्रतिष्ठित: कवि: लेखकश्चापि वर्त्तते, तेन निजोद्बोधने भारतीय-संस्कृते: संस्कृत-साहित्यस्य महत्त्वविषये छात्रा: अवगतीकारिता:। अमुना भणितं यत् , “गीताया: श्लोका: न केवलम् अस्माकम् आध्यात्मिकं मार्गदर्शनं कुर्वन्ति, प्रत्युत अस्माकं जीवनस्य विभिन्न-पक्षाणां प्रबोधने अपि सहायतां कुर्वन्ति। गीताया: अध्ययनेन नैतिकताया: अनुशासनस्य आत्म-प्रेरणाया:, कर्मणश्च शिक्षा प्राप्यते, एतद्धि बालकानां समुज्ज्वल-भविष्याय अत्यन्तमेव महत्वपूर्णमस्ति।” अतिथिवर्यस्य वक्तव्यानन्तरं छात्रैः प्रश्नोत्तर-संवाद-सत्रे तस्य पुरत: निजजिज्ञासापूर्णा: प्रश्ना: उत्थापिता: अतिथिवर्येण च तेषां प्रश्नानां समुत्तराणि प्रदत्तानि।

उप-प्रधानाचार्या श्रीयुता विनीता धवनवर्या छात्रान् सम्बोधयन्ती प्रेरयन्ती च प्रावोचत्,यत् ” भवद्भिः सर्वै: छात्रैः गीताया: श्लोकानाम् अद्भुतं वाचनं कृतम्। एतद् न केवलं भवतां भाषीयां क्षमतां विकासयति प्रत्युत भवत्सु आत्म-विश्वासं दृढतां चापि निधापयति। “मुख्याध्यापिका श्रीमती नीता निझारा तेषां सुष्ठु प्रस्तुतीनां कृते विद्यार्थिन: श्लाघयन्ती न्यगादीत् ” यत् भवन्तः सर्वे परिश्रमेण अभ्यासेन च स्पर्धामिमां सफलां कृतवन्तः। गीताया: श्लोकानाम् अध्ययनं तेषां वाचनं च भवतां चरित्र-निर्माणे सहायकं भविष्यति।” आयोजनस्य अन्ते, सामूहिकशान्ति पाठादनन्तरं सर्वै: छात्रैः शिक्षकै: अतिथिभि: च सह सम्भूय सामूहिकं चित्राङ्कनं स्वीकृतम्। कार्यक्रमस्य सफलतायां विद्यालयस्य वरिष्ठ-संस्कृत-शिक्षिकाया: डॉ.ज्योत्स्नामहोदयाया:, हिन्दीशिक्षकस्य श्रीयुदुमेशभारद्वाजस्य छात्राणां च परिश्रमस्य समर्पणस्य च योगदानम् अवर्तत। एतस्मिन् अवसरे न केवलं विद्यार्थिन: संस्कृतं प्रति प्रोत्साहिता: अपितु ते भारतीयसंस्कृते: साहित्यस्य विषये चापि अवबोधिता:। एतद् आयोजनं बालभारतीपब्लिकविद्यालयस्य शिक्षां प्रति समर्पणस्य विद्यार्थिभ्य: व्यापक-समृद्ध-शैक्षिकानुभव-प्रदानस्य च प्रतिबद्धतां प्रदर्शयति। समस्तस्यापि कार्यक्रमस्य समन्वयकत्वं समवाप्तसाहित्याकादेमीयुवपुरस्कार: डॉ. युवराजभट्टराई वर्य: समभालयत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button