राहुलव्यास: राज्ये प्रथमस्थानसम्प्राप्तये सम्मानितोभवत्
।। स: उत्तराखण्डसंस्कृतशिक्षापरिषद: श्रीविश्वनाथसंस्कृतमहाविद्यालयस्य दशमकक्षाया: छात्रोस्ति। तस्य सम्माने उत्तराखण्डशिवानंद-आश्रमस्य श्रीमत्स्वामी पूज्यपाद: गंभीरानंदमहाराजश्रीवर्य: छात्रं राहुलव्यासं एकपञ्चाशत्सहस्रात्मकधनराशिं (51000) च फलानां एकां पेटिकां प्रदत्तवान् ।।

उत्तरकाशी । श्रीविश्वनाथसंस्कृतमहाविद्यालयस्य उत्तराखण्डसंस्कृतशिक्षापरिषद: उत्तरकाशीनगरस्य पूर्वमाध्यमिकद्वितीयवर्षसमतुल्यस्य दशमकक्षाया: राहुलव्यासः गतमासे राज्ये प्रथमस्थानं प्राप्तवान् तथा च सम्पूर्णसंस्कृतजगति गौरवम् आनयत्। सम्पूर्ण: उत्तरकाशी प्रसन्नोस्ति अस्मिन्सन्दर्भे। तस्य सम्माने उत्तराखण्डशिवानंद-आश्रमस्य श्रीमत्स्वामी पूज्यपाद: गंभीरानंदमहाराजश्रीवर्य: छात्रं राहुलव्यासं एकपञ्चाशत्सहस्रात्मकधनराशिं (51000) च फलानां एकां पेटिकां प्रदत्तवान् । अस्मिन् अवसरे श्रीविश्वनाथसंस्कृतमहाविद्यालयस्य प्रबन्धकः डॉ. राधेश्यामखण्डछरीमहोदयः अवदत् यत् एतेन अन्ये बालकाः अपि प्रेरिताः भविष्यन्ति। तेन सह महाविद्यालयस्य प्राचार्यः श्री जगदीशप्रसाद-उनियालः अपि छात्राय अभिनन्दनम् अकरोत्। एवं च महाविद्यालयस्य प्राचार्य: डॉ. द्वारिकाप्रसादनौटियाल: च सर्वे शिक्षका: छात्राणाम् उज्जवलभविष्यस्य कामनां कुर्वन्त: पूज्यमहाराजश्रीवर्यस्य आभारं प्रकटितवन्त: । वस्तुत: राहुलव्यास: संस्कृतछात्राणां कृते प्रेरणीय: वर्तते स: निरन्तरं गुरुणां सानिध्ये विद्याध्ययनं तु कृतवान् एव परञ्च स्वकीयम् अभ्यासं परिश्रमेण वर्धितवान् ।