पञ्जाबप्रदेशे संस्कृतभाषायाः प्रचारार्थं नाभानगरे संगोष्ठ्याः आयोजनं कृतम्

नगरे संस्कृतभाषायाः प्रवर्धनार्थं जिलाध्यक्षस्य श्रीनिगमस्वरूपवर्यस्य अध्यक्षतायां “दयानन्दपब्लिकस्कूल्पाण्डुसरनाभानगर” इत्यत्र संगोष्ठी आयोजिता। यत्र मुख्यवक्तृरूपेण प्रांतीय सहमंत्री श्री अजय: आर्य: उपस्थित: आसीत् | सः संस्कृतभारत्याः उपक्रमविषये चर्चां कृतवान् । अस्यां संगोष्ठ्यां विभागसहसंयोजकः ओमन्दीपशर्मा महोदयः संस्कृतस्य आवश्यकताविषये भाषणं कृतवान् । जिलासम्पर्कप्रमुख: डॉ. रविदत्त: पटियालामण्डले संस्कृतभारत्या: प्रचलितगतिविधीनां विषये सम्बोधितवान्। संगोष्ठ्याः संचालनं जिलामन्त्रिणा गगनदीपपाठकेन कृतम् अस्मिन् अवसरे नाभानगरात् संस्कृतप्रेमिणः भागं गृहीतवन्तः। नाभायां विविधाः संस्कृतक्रियाः करणीयाः विषयेस्मिन् चर्चा अभवत् ।
अस्मिन् अवसरे “दयानन्दपब्लिकस्कूल” इत्यस्य प्राचार्यः सुभाषभारद्वाजमहोदयः विद्यालये संस्कृतवार्तालापशिबिरस्य आयोजनस्य आश्वासनं दत्तवान्। तेन सह नाभानगरस्य संस्कृतभारतीसमूहस्य सदस्यानां घोषणा जिलाध्यक्ष: श्री निगमस्वरूप: इत्यनेन कृता। येषु श्री जीवनशर्मा नगरसंयोजक: , श्री मोहितशर्मा नगरसहसंयोजक:
श्री श्रीकांतशर्मा नगरसंपर्कप्रमुख: श्री अनिल: नगरप्रशासनप्रमुख: इति एते दायित्वं प्राप्तवन्त: । जिलाध्यक्ष: अवसरेस्मिन् पुन: सर्वेभ्यः हार्दिकशुभकामनां प्रदाय उक्तवान् यत् आशास्ति यत् भवद्भिः प्रयत्नेन नाभायां संस्कृतभाषा प्रफुल्लिता च भविष्यति।
संगोष्ठ्यां डॉ. गगनदीपशर्मा, श्री विनोदनवलकिशोर: जसप्रीतजोशी, संदीपशर्मा, पुष्पिन्द्रशर्मा, आशीषभट्ट:, परवीनकुमार:, श्यामलाल: आदय: संस्कृतप्रेमीजना: संगोष्ठ्यां भागं गृहीतवन्तः।