देशदेहलीधार्मिकराजनीतिलाइफस्टाइल

येषां शासने रामभक्तिः अपराधः घोषितः ते अधुना राम राम रटन्ति।

सत्यं यत् कालः बलवान् जगति। किं ज्ञायते भवद्भिः यत् मुलायमसिंहस्य यादवस्य शासने उत्तरप्रदेशे रामभक्तिम् अपराधं मत्वा श्रीरामभक्तान् दण्डयित्वा तस्य अवैधानिकानि प्रमाणपत्राणि वितरिष्यन्ते स्म। मनोजेन अग्रवालेन तादृशम् एव एकं प्रमाणपत्रं जनसमक्षं प्रदर्शितम्।

साम्प्रतं पौषशुक्लद्वादश्यां बालरूपस्य रामस्य प्राणप्रतिष्ठा निश्चिता। एतादृशे समये विस्मयकारिणी इयं घटना लोके प्रकटिता। यदा कारसेवा अभवत् तदा मुलायमसिंहः येन केन प्रकारेण रामभक्तान् रोधितुम् यतते स्म। नानाप्रान्तेषु कारसेवकान् आरक्षका अवारुन्धन्। अलिगढे अपि तथैव कारसेवकान् बद्ध्वा कारागारे तान् क्षिपन्ति स्म। तत्र रेलस्थानात् मनोजः अपि निग्रहितः।
तस्य वचने कारागारे भगवद्भजनानि भवन्ति स्म। शाखाः अपि आयुज्यन्ते स्म। तदा कारागाराधीक्षकः एस्॰डी॰अवस्थी आसीत्। तस्य एव मुद्रा प्रमाणपत्रे अङ्किता। स कारसेवकान् प्रति ऋजुस्वभावः आसीत्। कारागारे शान्तिः आसीत्। जनानां शतानि निग्रहितानि आसन्। तेषां कुटुम्बिनः प्रतिदिनं मेलनार्थम् आयान्ति स्म परन्तु बहिः तु मुलायमस्य भयः प्रवृत्तः।

तत्रैव यत् प्रमाणपत्रं तस्मै प्रदत्तं तस्मिन् तस्य अपराधः रामभक्तिः वर्णिता। कारसेवकानां उत्तरप्रदेशे सर्वत्रैव अभवन् परन्तु रामभक्तिचालानीनाम प्रमाणपत्रं केवले अलिगढे वितरितम्।

अग्रे स वदति यत् कश्चिद् जनः तिलकं धृत्वा बहिः भ्रमति चेत् आरक्षकैः तस्य निग्रहणं भवति स्म। जनाः आरक्षकानां पुरतः रामरामोच्चारणे अपि भीताः आसन्। मुघलकाल इव भयः व्याप्तः आसीत् सर्वत्र।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Check Also
Close
Back to top button