संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

गीता प्रत्येकमानवजीवनस्य आधार:

श्रीमद्भगवद्गीताजयन्तीमासमुपलक्ष्य अभवत् उत्तरकाश्याम् व्याख्यानं

उत्तराखण्डं।उत्तरकाशी।श्रीमद्भगवद्गीताजयन्तीमासमहोत्सवमुपलक्ष्य अन्तर्जालीयसंस्कृतव्याख्यानं विदुषां सम्मेलने उत्तराखण्डस्य समग्रजनपदेषु संजायते। क्रमेस्मिन् रविवासरे चतुर्दशजनवरीमासे 11:00 वादनत: 1:00 वादनपर्यन्तं
उत्तरकाशीजनपदे उत्तराखण्डसर्वकारस्य हरिद्वार-नगरस्य उत्तराखण्डसंस्कृत-अकादमी-सहकारेण “श्रीमद्भगवद्गीतायां दिव्य-भावना-आसुरी-स्वभावस्य वर्णनम्” इत्यस्मिन् विषये अन्तर्जालीय-व्याख्यानस्य आयोजनं सञ्जातं। यस्मिन् मुख्यवक्ता श्री केन्द्रीयसंस्कृतविश्वविद्यालयात् लालबहादुरशास्त्रीसाहित्यविभागप्रमुखः प्रो.सुमनकुमारझा गीतामहत्त्वे प्रकाशं क्षिपन् उक्तवान् यत् – श्रीमद्भगवद्गीता स्वयं ईश्वरस्य मुखात् निसृता अस्ति यस्याम् अधिकतमं भाष्यम् लिखितम् अस्ति तथा गीता प्रत्येकस्य मानवस्य जीवनस्य आधारः अस्ति।

व्याख्याने सहवक्ता डॉ. नवीनजसोला सहायकप्राध्यापक: हिमालयनायुर्वेदिकचिकित्सामहाविद्यालयदेहरादूनत: श्रीमद्भगवद्गीतायां मानवजीवने उपयोगीशिक्षां प्रकाशितवान्।कार्यक्रमस्य मुख्यातिथि: श्री गौरवशास्त्री प्रांतसंगठनमंत्री संस्कृतभारतीत: गीतां मानवजीवनस्य महत्त्वपूर्णमार्गः इति वर्णितवान्।

कार्यक्रमस्य विशेषातिथिः श्री लक्ष्मीप्रसादजगूडी, सेवानिवृत्त: प्राचार्यः, श्री सरस्वतीसंस्कृतविद्यालयजोगथ-उत्तरकाशीत:, गीतायाः कर्मयोगस्य विषये प्रकाशं पातितवान्। कार्यक्रमस्य अध्यक्षतां कुर्वन् प्रबन्धकः श्री विश्वनाथस्नातकोत्तर- संस्कृतमहाविद्यालयः उत्तरकाशीत: डॉ. राधेश्यामखण्डुरी इत्यनेन एतादृशस्य आयोजनस्य आयोजनार्थं उत्तराखण्डसंस्कृताकादम्याः धन्यवादः कृतः। कार्यक्रमस्य संचालनं श्री राकेशसेमवाल: (कार्यक्रमसंयोजक:), श्री अनिलबहुगुणा (सहसंयोजक:), कृतवन्तौ च सहयोगे श्री मनोजकुमार:, श्री सुरेन्द्रभट्ट:, श्री दीपकगैरोला आसन् ।
कार्यक्रमे श्री द्वारकानौटियाल: गौरवजगूड़ी, अभिषेकशर्मा, वेदांतजगूडी चादय: अनेके गणमान्या: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button