संस्कृतभारती-देहलीप्रान्तस्य प्रान्तसम्मेलने कार्यकर्तृणां महासङ्गमः भविता
18-19 दिनाङ्कयोः जनवरीमासे भविष्यति विज्ञानप्रदर्शनी वस्तुप्रदर्शनी पुस्तकप्रदर्शनी मुख्याकर्षणानि

संस्कृतभारती इति संङ्घटनस्य देहलीस्थानां कार्यकर्तृणाम् आवासीयं प्रान्तसम्मेलनम् आगामिदिनेषु अष्टादशनवदशदिनाङ्कयोः भविष्यति। अत्र सङ्घटनसम्बद्धाः देहलीप्रान्तस्य समेऽपि कार्यकर्तारः समागमिष्यन्ति। कार्यकर्तृणां महासङ्गमेऽस्मिन् विज्ञानप्रदर्शन्यां संस्कृतभाषयानिबद्धानां वैज्ञानिकानाम् अंशानां प्रदर्शन्याः आयोजनम् वस्तुप्रदर्शनी पुस्तकप्रदर्शनी चैते मुख्याकर्षणभूताः भविष्यन्ति। सङ्घटनस्य कार्यकर्तारः संस्कृतसम्बद्धकार्याणां विषये विशिष्टं विचारमथनं करिष्यन्ति येन भविष्यति काले संस्कृतसम्भाषणस्य महत्कार्यं प्रान्ते वर्धेत। अवधातव्यं यत् संस्कृतभारती सङ्घटनं सम्पूर्णविश्वे संस्कृतसम्भाषणमाध्यमेन कार्यं कुर्वदस्ति। अस्मिन् कोटिशः कार्यकर्तारः अहर्निशं संस्कृतमातुः समाराधने रताः भवन्ति । भारतीयज्ञानविज्ञानपरम्परायाः रिक्थभूतं संस्कृतं जगति सर्वेषां सङ्कर्षणं करोतीति।







