हरियाणाकेन्द्रीयविश्वविद्यालयस्य जानकी-अम्मलछात्रावासे जन्मदिवस: च मकरसंक्रान्ति:

वृत्तप्रेषक:- अजयकुमार-आर्यः । महेन्द्रगढस्थ हरियाणाकेन्द्रीयविश्वविद्यालयस्य जानकी-अम्मलछात्रावासे जानकी-अम्मलायाः जन्म-जयन्तीकार्यक्रम: मकर-संक्रान्तिश्च आयोजिते। कार्यक्रमस्य आरम्भः सरस्वतीवन्दनया एवं दीपप्रज्वालनेन अभवत्। तत्पश्चात् कार्यक्रमस्य संयोजिका, डॉ. सुमनरानी स्वागतभाषणं कार्यक्रमस्य रूपरेखां च प्रस्तुतवती।
कार्यक्रमस्य मुख्यसंरक्षकः विश्वविद्यालयस्य माननीय-कुलपतिना प्रो. टङ्केश्वरकुमारवर्येण जानकीअम्मलायाः व्यक्तित्वात् प्रेरणां प्राप्य जीवने अग्रे वर्धनस्य कामनया स्व शुभाशीषा: प्रदत्ता: । प्रो. सुनीता श्रीवास्तववर्यया जानकी-अम्मलायाः जीवनशैल्याः प्रशंसनं कुर्वन् वनस्पतिवैज्ञानिकत्वे पद्मश्रीपुरुस्कारयात्रायां निजविचारान् प्रस्तुतवति। पुन: कार्यक्रमसंयोजिका डॉ. सुमनरानी आयोजितस्य अस्याद्भूतकार्यक्रमस्य प्रशंसनं कृतवती ।
कार्यक्रमस्य सह-संरक्षकेन विश्वविद्यालयस्य कुलसचिवेन प्रो. सुनीलकुमारेण स्वोद्बोधने उक्तम् यद् “ईदृशाः सांस्कृतिककार्यक्रमाः छात्राणां कृते दिग्दर्शिन: प्रेरणादायकाश्च भवन्ति” । महिलाछात्रावासस्य अधीक्षिका प्रो. पायलचन्देलवर्या उक्तवती यत् “छात्रावासे एतदृशाः कार्यक्रमाः सर्वदा भवेयुः येन छात्रा: निजदेश-संस्कृति- धर्मादिविषयेषु विषये सर्वदा जागरूका: भवेयु: इत्थं विधसांस्कृतिकसन्ध्यायाः आयोजनेन छात्राणां सर्वाङ्गीणविकासः भवति”।
कार्यक्रमस्य समापने संयोजिका एवं जानकीअम्मलायाः छात्रावासप्रमुखा, डॉ. सुमनरानीवर्यया आगतानाम् अतिथीभ्य:, प्रतिभागिभ्य: कार्यक्रमे सहयोगिभ्य: धन्यवादज्ञापनं कृतम्। कार्यक्रमे चतस्र: प्रतियोगिताः- कक्षस्वच्छता , चित्रकला, नृत्यम्, रंगपथचलनम् (Ramp Walk) च समायोजिता:।
कार्यक्रमस्य मञ्चसंचालनं शोधार्थिन्यौ प्रियाभारद्वाज: विनिता च कृतवत्यौ। पुरस्कारवितरणात् परं राष्ट्रगानेन कार्यक्रमस्य समापनमभवत् ।
अस्मिन् अवसरे प्रो. मनोजकुमारः, प्रो.सविता, प्रो. श्रीरामपाण्डेयः, डॉ. मनीषकुमारः, डॉ. रविपाण्डेयः, डॉ. अकुंशविजः, डॉ. रेनू, डॉ. अर्चना, डॉ. मोना शर्मा, डॉ. अरुणकुमारः, डॉ. कृष्णकुमारादय: उपस्थिताः आसन्।