संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
हरियाणा

संस्कृतभारती हरियाणाराज्यस्य प्रान्तगोष्ठी करनाले सुसम्पन्ना।

प्रबोधनवर्गे गुरुकुलसम्मेलनविषये विस्तरेण चर्चा अभवत् । श्रीजयप्रकाशवर्यस्य उद्‌बोधने कार्यकर्तारः संस्कृतकार्याय सिद्धा: अभवन्।

हरियाणा । संस्कृतभारतीहरियाणाद्वारा करनालस्थे विवेकानन्दविद्यालये प्रान्तगोष्ठी दिसम्बरमासस्य 16-17 दिनाङ्‌कयोःअभवत्।_
कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन अभवत् । दीपप्रज्वलनसमये अखिलभारतसहसङ्‌घनमन्त्री श्रीमान् जयप्रकाशगौतमः उपस्थितः आसीत् । अस्मिन् अवसरे वैदिकमन्त्राणाम् उच्चारणमभवत्।

तदनन्तरं सरस्वती वन्दना ध्येयमन्त्रः च अभवत् । अतिथीनां परिचयः प्रान्तसहमन्त्रिणा भूपेन्द्रशर्मणा कारितः। गोष्ठी-प्रास्ताविकं प्रान्तमन्त्रिणा प्रमोदशास्त्रिणा प्रस्तुतम्।मञ्चसञ्चालनं प्रान्तप्रचारप्रमुखेण सतेन्द्रकुमारेण कृतम्।तदनन्तरम् अग्रिमसत्रे अखिलभारतसहसङ्‌‌घटनमन्त्री श्रीमान् जयप्रकाशः दायित्वबोध: इति विषयम् अवलम्ब्य कार्यकतॄन् बोधितवान्। महोदयस्य उद्‌बोधनेन सर्वेऽपि कार्यकर्तारः प्रेरिताः, उत्साहिताः, ऊर्जावन्तः अग्रे संस्कृतकार्याय सिद्धाश्च अभवन्। तदन्तरम् विभागशः गोष्ठी अभवत्। तत्र प्रत्येकं विभागे किं किं कार्यं जातम्। जनपदसम्मेलनम् प्रबोधनवर्ग:च इत्यादिविषयेषु विस्तरेण चर्चा अभवत् । द्वितीयदिवसे प्रातः स्मरणम्, पञ्चाङ्‌गम् ऐक्य-मन्त्रेण दिनस्य शुभारम्भः अभवत्।
तदनन्तरम् अग्रिमसत्रे विभागप्रमुखैः आयामप्रमुखैश्च स्व-स्वविभागस्य स्व-स्वायामस्य वृत्तं प्रस्तुतम्।

क्षेत्रसङ्‌घनमन्त्रिणा श्रीमता नरेन्द्रकुमारेण सत्रं स्वीकृतम्।तस्मिन् सत्रे नरेन्द्रमहोदयः बोधितवान् यत् कार्यस्य, कार्यकर्तॄणां कार्यक्षेत्रस्य च वर्धनं कथं भवेत्। सःअग्रे उक्तवान् यत् नैर्यन्तरेण कार्यस्य समीक्षा करणीया। सङ्‌घटनं द्विधा वर्धते विश्वासेन प्रवासेन च। कार्यवर्धनाय स्नेहबन्धः परमावश्यकःअस्ति। संस्कृतभारत्याः मूलकार्यम् अस्ति सम्भाषण-शिबिरचालनम्।

समापनसत्रे दायित्ववतां कार्यकर्तॄर्णां कार्यविषये स्पष्टता कृता।तदन्तरं नूतनदायित्वानां घोषणा जाता। अन्ते प्रान्तस्य न्यासस्य अध्यक्षेण श्रीमता डॉ रामनिवासमहोद‌येन पाथेयं प्रदत्तम्। महोदयः बोधितवान् अस्माभिःअहर्निशं संस्कृतकार्यस्य चिन्तनं कृत्वा कटिबद्धाश्च भूत्वा कार्यं करणीयम्। उपवेशने अस्मिन् प्रान्तविभागजनपदस्तरस्य सर्वे दायित्ववन्तः कार्यकर्तारः उपस्थिताः अभवन् । कार्यक्रमस्य समापनं कल्याणमन्त्रेण अभवत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button