संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

रुद्रप्रयागजनपदे “कालिदासस्य जन्मभू:” विषयेस्मिन् विद्वद्भि: प्रस्तुतम् अन्तर्जालीय-व्याख्यानं

रुद्रप्रयाग। उत्तराखण्डसंस्कृताकादम्या, प्रतिवर्षं संस्कृतभाषायाः प्रसाराय, संरक्षणाय, च अन्तर्जालमाध्यमेन संस्कृतव्याख्यानमालाम् आयोज्यते। तस्याम् एव श्रृङ्खलायां अस्मिन् वर्षे अपि महाकविकालिदासजयन्तीमासमहोत्सवान्तर्गतं अन्तर्जालीयसंस्कृतव्याख्यानं आयोजितम् । आयोजनं १३ जनपदेषु महता अत्युत्साहेन आयोज्यते, तस्मिन् एव क्रमे रुद्रप्रयागजनपदे १४ दिसम्बर् २०२३ दिनाङ्के संस्कृतव्याख्यानमाला आयोजिता, कार्यक्रमस्य रूपरेखा गुप्तकाशीत: जनपदसंयोजक: डॉ. गणेशभागवत: सहायकप्राध्यापकः, रा.महा.गुप्तकाशी, कार्यक्रमस्य रूपरेखां निर्मीय “कालिदासस्य जन्मभू:” विषयेस्मिन् विद्वज्जनान् संगोष्ठ्याम् आमंत्रितं कृतवान्। कार्यक्रमस्य अध्यक्षता
प्रो. प्रतापसिंहजंगवाणः प्राचार्य:, रा.महा.गुप्तकाशीरुद्रप्रयागत:
कार्यक्रमस्य आरम्भस्य अनुमतिं दत्त्वा स्ववक्तव्ये कार्यक्रमस्य मार्गदर्शनं कुर्वन् आशीर्वादं दत्तवान्। कार्यक्रमस्य आरम्भः वैदिक-आह्वानेन कृतः, वैदिक-आह्वानं आचार्य-परमेश-उनियालेन कृतम्, तदनन्तरं कार्यक्रमस्य विशेषातिथिः सन्तोषकुमारमहोदयः प्रधानाचार्य: रा.इ.का. सिल्पाटा स्वाशीर्वचांसि दत्तवान् च तदनन्तर प्रो. विश्वनाथखालीमहोदयः अपि शुभकामनाभिः स्वस्य बहुमूल्यं समयं दत्तवान्, कार्यक्रमस्य मुख्यातिथिः, संस्कृतमहाविद्यालयमण्डलस्य प्राचार्यः डॉ. जनार्दनप्रसाद नौटियालः अपि संस्कृतभाषायाः उदयसम्बद्धानां शास्त्राणां विषये एवं च महाकविकालिदासस्य जन्मभूविषये स्वमतं प्रस्तुतवान् । कालिदासजन्मभोस्मारकसमितिकाव्यस्य मुख्यवक्ता तथा महासचिवरूपेण उपविष्टस्य आचार्यसुरेशानन्दगौड: इत्यस्य वचनेन सर्वेषां हृदयं प्रसन्नं जातम्, तेन महाकविकालिदासस्य जन्मस्थानस्य कविल्ठाया: अनेकानि प्रमाणानि प्रदत्तानि च क्रियमाणस्य कार्यस्य विषये अवगतं कृतवान्, राज्यसंयोजकमहोदय: हरीशगुरुरानीमहोदय: अपि स्मारितवान् यत् कालिदासग्रन्थेषु उत्तराखण्डस्य वर्णनम् अधिकं विद्यते । कविल्ठा कालिस्थानम् अपि कालिदासस्य जन्भूरपि विद्वभिरत्र सूनिश्चितं कृतं । तै: सर्वेभ्य: शुभकामना: वितरिता: । तथा च जिलासंयोजकः महोदयः सर्वेभ्यः धन्यवादं दत्तवान्। सञ्चालनं केशवबिजल्वाणवर्येण कृतं । अन्तिमे शान्तिमन्त्रेण संगोष्ठ्या: समापनं सञ्जातं।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button