दशदिनात्मकयोगप्रशिक्षणकार्यशालायाः शुभारम्भः
सार्थकयोगशालाया: सोनमरावतप्रशिक्षिका शिक्षयति योगं

कण्वनगरीकोटद्वारस्य शिवराजपुर-मोटाढाङ्गस्थिते मालिनी-वैली-कॉलेज्-ऑफ्-एजुकेशन इत्यस्मिन् शिक्षणसंस्थाने दशदिनात्मकयोगप्रशिक्षणकार्यशालायाः मंगलमयः शुभारम्भः विधिवद् सञ्जात: । अस्याः कार्यशालायाः उद्घाटनसमये महाविद्यालयनिदेशक: आदरणीयः श्रीयोगम्बर-सिंह-रावतमहोदयः, रा० इ० कॉलेज-कोटद्वार इत्यस्य संस्कृतशिक्षक: श्रीकुलदीप-मैन्दोला-महोदयः, सेवानिवृत्तप्रधानाचार्यः डॉ० रमाकान्त-कुकरेती-महोदयः तथा सार्थकयोगकार्यशालायाः योगप्रशिक्षिका कुमारी सोनम-रावत-महोदया च संयुक्ततया दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भम् अकुर्वन्।

अस्मिन् उद्घाटनसमारोहे महाविद्यालयस्य मार्गदर्शका: प्रशिक्षणार्थिन: छात्राः, प्राध्यापकाः, कर्मचारिणः तथा योगाभिलाषिणः बहुसंख्यया उपस्थिताः आसन्। कार्यक्रमस्य प्रारम्भे वेदमन्त्रपाठेन वातावरणं आध्यात्मिकभावेन पूर्णम् अभवत्।

उद्घाटनसमये वक्तृभिः योगस्य महत्त्वं विस्तरेण प्रतिपादितम्। श्रीयोगम्बर-सिंह-महोदय: स्वयं योगयुक्त: सन् सर्वेषां मनोबलं वर्धयन् घण्टाद्वयस्य यौगिकसहयोगं स्वास्थ्यवर्धनाय प्रददाति। श्रीकुलदीप-मैन्दोला-महोदयेन छात्रान् प्रति प्रेरणादायी संदेशः दत्तः यत् नियमितयोगाभ्यासेन अनुशासनबुद्धिः, एकाग्रता, स्वास्थ्यलाभः च भवति, योगद्वारा मनोदैहिक नियन्त्रणं सम्भवति। स: उक्तवान् यत् संस्कृतभारतीद्वारा एवं सार्थकयोगशालाद्वारा मालिनीवैलीकालेज आफ एजुकेशन इत्यत्र त्रयाणां संयुक्तसहयोगेन कण्वनगर्यां योगस्य कार्यशाला संजायते ।

डॉ० रमाकान्त-कुकरेती-महोदयेन उक्तं यत् प्रतिदिनमेव ध्यानाभ्यासेन मानसिकशान्तिः प्राप्यते। तदेव जीवनस्य आधार: वर्तते। योगप्रशिक्षिका कु० सोनम-रावत-महोदया अवदत् यत् अस्यां कार्यशालायां ताडासनम्, त्रिकोणासनम्, भुजङ्गासनम्, पवनमुक्तासनम्, वज्रासनम् , सूर्य-नमस्कार: इत्यादीनि आसनानि, अनुलोम-विलोम:, कपालभाति:, भ्रामरी इत्यादयः प्राणायामाः, ध्यानप्रक्रिया च अध्याप्यन्ते। सा अवदत् यत् नियमिताभ्यासेन न केवलं रोगप्रतिरोधकशक्तिः वर्धते, अपितु चिन्ता अपि न्यूनो भवति।

एषा दशदिनात्मकयोगकार्यशाला दिनाङ्क ११-०२-२०२६ तः २०-०२-२०२६ पर्यन्तं प्रतिदिनं प्रातः ९:३० वादनात् अपराह्ण १२:०० वादनपर्यन्तं आयोजिता अस्ति। महाविद्यालयस्य प्रबन्धिका श्रीमती श्वेता-रावत-महोदया योगं स्वस्थजीवनस्य आधारस्तम्भं निर्दिश्य क्षेत्रवासिनः आहूतवन्ती यत्— “ योगः एव संतुलितजीवनस्य श्रेष्ठः उपायः इति । अनेन प्रकारेण अस्याः दशदिनात्मकयोगप्रशिक्षणकार्यशालायाः शुभारम्भः उत्साहपूर्णवातावरणे संजायते, यः न केवलं छात्राणाम् अपितु समग्रक्षेत्रस्य स्वास्थ्यवर्धनाय मङ्गलसूचकः वर्तते।







