संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
संस्कृत भारतीहरियाणा

हरियाणाराज्ये कैथले भाषाप्रबोधनवर्ग: जनपदसम्मेलनं च सम्पन्नम्

भाषाप्रबोधनवर्गे 85 जनपदसम्मेलने च 166 प्रतिभागिन: भागमगृह्णन्

डॉ.नवीनशर्मा । संस्कृतभारती-हरियाणाद्वारा कैथलजनपदे प्रसिद्धे श्रीग्यारहरुद्रीमन्दिरे 04 जनवरी,2024 दिनांकत: (सायंत:) 12 जनवरीप्रात:पर्यन्तं भाषाप्रबोधनवर्गस्य आयोजनं कृतम्। वर्गस्य उद्घाटनकार्यक्रमे महर्षिवाल्मीकिसंस्कृतविश्वविद्यालयस्य कैथलस्य कुलपति: प्रो. रमेशचन्द्रभारद्वाजवर्य: समागत: आसीत्। मुख्यातिथिना स्वोद्बोधने कथितं यत् संस्कृतभारती वर्तमानकाले आभारते एव न अपितु विश्वस्य अनेकेषु देशेषु संस्कृतसम्भाषणयज्ञस्य अनुष्ठानं करोति इति महत्शैक्षणिककार्यं वर्तते। उद्घाटनकार्यक्रमे संस्कृतभारत्या: उत्तरक्षेत्र-संघटनमन्त्री श्रीमान् नरेन्द्रवर्य: मुख्यवक्तृरूपेण समागत:। तेन सर्वेषां वर्गार्थिनां उत्साहवर्धनं कुर्वन् कथितं यत् अस्माभि: सर्वै: सर्वदैव संस्कृतमयं चिन्तनं कृत्वा संस्कृतसम्भाषणेन संस्कृतपाठनेन च अखण्डसंस्कृतमयस्य भारतस्य रचना करणीया।

सत्रे संस्कृतभारती-हरियाणा न्यासाध्यक्ष: डॉ. रामनिवासशर्मा, श्रीग्यारहरूद्रीमन्दिरस्य प्रबन्धसमिते: प्रधान:, प्रान्तसहमन्त्री श्री ईशमसिंह:, साहित्यप्रमुख: श्रीपुष्पेन्द्र:, प्रशिक्षणप्रमुख: डॉ.नवीनशर्मा, वर्गपालक: डॉ. शीतांशु: त्रिपाठी,व्यवस्थाप्रमुख: डॉ. विनयगोपालत्रिपाठी च उपस्थिता: अभवन्।
वर्गेsस्मिन् मुख्यप्रशिक्षक: श्रीबलजिन्द्रवर्य:, सहशिक्षकरूपेण प्रबन्धकरूपेण च अजय:, सुनील:, रजनी, वन्दना, प्रवीणशास्त्री, आनन्दशास्त्री,हितेशशास्त्री इत्यादय:च आसन्।

वर्गस्य दिनचर्याया: अनुसारं प्रतिदिनं शिक्षणादिकं जातम्। प्रतिदिनं प्रात: वन्दनासत्रे राष्ट्रियस्वयंसेवकसंघस्य कार्यकर्तार:, विश्वविद्यालयस्य आचार्या:,सामाजिकाश्च प्रोत्साहनं कर्तुं समागता:।

संघटनपक्षत: संस्कृतभारती-हरियाणाप्रान्तस्य आधारभूतस्तम्भ: गीतामनीषी श्रीहरिदेवशास्त्रिवर्य: मार्गदर्शनार्थं समागता:। अस्य वर्गस्य समापनकार्यक्रम: जनवरीमासस्य एकादशदिनांके सांयकाले जात:। यस्मिन् उत्तरक्षेत्रसम्पर्कप्रमुख: डॉ. जोगेन्द्रसिंह:, प्रान्तमन्त्री डॉ प्रमोदशास्त्री, प्रान्तसहमन्त्री भूपेन्द्र:च उपस्थिता: अभवन्।
डॉ. जोगेन्द्रवर्येण वर्गार्थिन: प्रोत्साहिता: यत् कथं वयं सर्वे संस्कृतसम्भाषणं कर्तुं शक्नुयाम? कथं संस्कृतमयस्य अखण्डभारतस्य निर्माणं शक्यते? द्वादशदिनांके प्रात: दीक्षान्तसमारोहस्य आयोजनं जातं यस्मिन् डॉ. शीतांशुत्रिपाठीवर्येण पाथेयं प्रदत्तम्।

वर्गे बालका: 41,बालिका: 14,पुरुषशिक्षका: 02,पुरुषसहशिक्षका: 05,महिलाशिक्षिका 01,महिलासहशिक्षिका: 02,महिलाप्रबन्धिका: 02,पुरुषप्रबन्धका: 18,आहत्य 85 सङ्ख्या आसीत्।

वर्गस्थाने कैथल-जनपदसम्मेलनस्य आयोजनं जातम्। दीक्षान्तसमारोहानन्तरं कैथलजनपदस्य सम्मेलनं जातम्। यस्य संयोजक: सुनील: आत्रेय: सहसंयोजक: जयभगवानशास्त्री, जिलाध्यक्ष: बलराज:, वर्गाधिकारी ईश्वरदत्त: भारद्वाज: च आस्ताम्। सम्मेलने इन्दिरागान्धीमहाविद्यालयस्य आचार्य: डॉ. सलिन्द्र: 50 छात्राभि: सार्धं समागत:। अन्येभ्य: विद्यालयेभ्य: अपि संस्कृताध्यापका:, विद्यार्थिन: संस्कृतानुरागिण: सामाजिकाश्च समागता:। सम्मेलने उद्घाटनसत्रानन्तरं परिचयसत्रं चर्चासत्रं च जातम्। तत्र भारतस्य नवनिर्माणे संस्कृतस्य योगदानम् इत्यस्मिन् विषये चर्चा जाता। कार्यक्रमे प्रशिक्षणप्रमुखेण डॉ नवीनशर्मणा संस्कृतभारती-संघटनस्य परिचय: प्रस्तुत: । पत्राचारप्रमुखेण डॉ. शीतांशुत्रिपाठिना संस्कृते निहितविज्ञानस्य प्रयोगेण नवभारतस्य निर्माणस्य विषये अनेके बिन्दव: प्रस्तुता:। तेन विकसितभारते संस्कृतस्य योगदानम् इत्यस्मिन् विषये स्व- विचारा: प्रस्तुता:। गीतामनीषिणा श्रीहरिदेवशास्त्रिवर्येण चर्चासत्रस्य निष्कर्षा: उपस्थापिता:। सम्मेलनस्य समापनसत्रे श्रीरमनपुरीमहाराज: मुख्यातिथिरूपेण समागत: तेन कथितं यत् भारतस्य मूलतत्वं संस्कृतम्,संस्कृतस्य प्रभावेण एव सनातनं सुरक्षितं वर्तते। सम्मेलने आहत्य 167 सङ्ख्या आसीत्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button