प्रबोधनवर्गस्य समापनसमारोहे विद्यार्थिभिः प्रस्तुताः मनोहरप्रस्तुतयः
संस्कृतं वेदभाषारूपेण अनन्तकालाद् भारतस्य हृदये विलसति - "विनय: आर्य:"

देहलीस्थे पञ्जाबीबागे संस्कृतभारत्या समायोजितस्य प्रबोधनवर्गस्य अद्य भव्यतया सम्पूर्तिसमारोहः जातः। सर्वादौ प्रातःकाले भारतमातुः मानचित्रं पुरतः सर्वैः दीपप्रबोधनं वन्दना च कृता। प्रान्तसाहित्यप्रमुखमहोदयेन देवेन्द्रशर्मणा पाथेयरूपेण शिक्षार्थिनां कृते विचाराः प्रदत्ताः।

समापनसमारोहस्य मुख्यकार्यक्रमे मङ्गलाचरणैः श्रीगणेशः जातः । श्रीजयदेवेन शिवनाथझाद्वारा च अतिथिनां परिचयः कारितः। अजितेन वर्गशिक्षणप्रमुखेण वर्गस्य प्रस्तावना कृता।
मुख्यातिथिरूपेण विनयः आर्यमहोदयः उपस्थितः। आर्यमहोदयः आर्यप्रतिनिधिसभायाः महामन्त्री इति दायित्वं निर्वहति। महोदयेन कथितं यत् संस्कृतं वेदभाषारूपेण अनन्तकालाद् भारतस्य हृदये विलसति। महापुरुषाः यया भाषया पराक्रमपराणि कार्याणि कृतवन्तः तत्पठितुं यस्य अपि अवसरः भवति सः अत्यन्तं सौभाग्यशाली। भारतस्य विश्वगुरुत्वस्य कारणं संस्कृतमेव इति।
मुख्यवक्तृत्वेन समुपस्थितेन प्रोफेसर शिवशङ्करमिश्रेण श्रीलालबहादुरशास्त्रिराष्ट्रीयसंस्कृतविश्वविद्यालयस्य शोधविभागाध्यक्षेण देववाण्याः संस्कृतस्य अविरलधारायाः सोपानानि संसूचितानि। असङ्ख्याः ऋषयः कवयः ऐतिहासिकाः पौराणिकाः विचारकाः भारताम्बायाः समाराधनं कृतवन्तः। भारतीयज्ञानपरम्परायां प्रवेशाय संस्कृतमेव माध्यमः। मिश्रमहोदयेन संस्कृतसम्भाषणस्य अभ्यासं कर्तुं समागतानाम् अभिनन्दनं कृतम् अथ च कथितं यत् सर्वे विद्यार्थिनः महाकुम्भम् अधिकृत्य संस्कृतेन लिखामः।

कार्यक्रमे प्रान्तमन्त्रिणा डॉ देवकीनन्दनशर्मणा विद्यार्थिनां पुरतः सङ्घटनस्य कार्यं कर्तुं कथं प्रेरणा प्राप्तव्या इति प्रस्तुतम्। अन्ते वर्गाधिकारिणा डॉ रविदत्तशर्मणा छात्राणां पुरतः संस्कृतकार्याणि कर्तुं सङ्कल्पः उपस्थापितः कथितं च यत् सम्प्रति वयं संस्कृतभारती इति सङ्घटनस्य कार्यकर्तारः अतः तदनुसारं अस्माकं व्यवहारे नित्यं संस्कृतं स्यात्। शिक्षार्थिभिः गीतानि, नृत्यम् , स्तोत्राणि, संवादाः, अनुभवाश्च प्रस्तुताः। एताभिः प्रस्तुतिभिः उपस्थितानां सर्वेषां मनः प्रफुल्लितं जातम्। एवं सप्तदिनात्मकस्य प्रबोधनवर्गस्य भव्यः सम्पूर्तिसमारोहः जातः।







