उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

गढ़वालस्य प्रसिद्धतमस्वर्गीयशशिधरभट्टस्मृतौ राष्ट्रियफुटबॉलप्रतियोगिता सप्ततितमगढ़वालपदकरूपेण सुसम्पन्ना

राष्ट्रियफुटबॉलप्रतियोगिताया: गढ़वालपदकस्य विजेता अभवत् गढ़वालसैन्यदलं (षोडशमं भटालयं)

गढ़वालसैन्यदलं (षोडशमं भटालयं) गढ़वालपदकस्य विजेता अभवत्। संघर्षपूर्णप्रतिस्पर्धायां गढ़वालसैन्यदलं २-१ इत्यनेन विजयं प्राप्य गढ़वालपदकं स्वनामकृतम्। द्वितीयस्थानं दूनसिटी-एफसी दलस्य अभवत्।


स्वर्गीयशशिधरभट्टराजकीयक्रीडास्थलीकोटद्वारे अद्य प्रतियोगितायाः अन्तिममेलनं समारब्धम्। खेलक्रीडायाः आक्रामकं प्रदर्शनं कृत्वा, क्रीडकै: दर्शकानां मनोभावेषु उत्कण्ठां सम्पाद्य, स्पर्धायाः सौन्दर्यं वर्धितम्।

मैत्रीमेलनम् (वयोवर्गः ४०+)

अद्य अन्तिमस्पर्धायाः पूर्वं वयोवर्गे (४०+) कोटपौड़ीप्लाटून् तथा लैंसडौनलायन्स् इत्यनयो: मध्ये मैत्रीमेलनं सम्पन्नम्। वर्षायाम् अपि प्रवर्तमानं एतद् मेलनं निर्धारितकालान्ते १-१ इत्यस्मिन्स्थले समाप्तम्। पश्चात्, पदान्तबहिप्रहारद्वारा लैंसडौनलायन्स्दलं ४-३ इत्यस्मिन् रोमांचके विजयम् अजनयत्।

*उद्घाटनसमारोहः , कार्यक्रमस्य प्रारम्भः*

राजकीयान्तर्कॉलेजकुम्भीचौड़ेऽभियुक्ताभिः भगिनिभिः स्वागतगीतस्य प्रस्तुतेः आरब्धः कृत:। ततः सांस्कृतिककार्यक्रमाः आयोजिता: अभवन्।
अन्तिममेलनस्य उद्घाटनं प्रतिष्ठितव्यवसायिनः श्रीमान् चांदमौलाबक्षेण सम्पन्नम्। ततः, प्रतिस्पर्धकदलेभ्यः परिचयः कृतः।

अन्तिममेलनस्य मुख्यांशाः-

गढ़वालसैन्यदलं (षोडशमं भटालयं) प्रथमार्धे आक्रामकं प्रदर्शनं कृत्वा प्रभुत्वं प्रदर्शितवान्। षष्ठेक्षणे एन्जेलरावत् प्रथमं गोलं सम्पाद्य दलं अग्रिमं कृतवान्। दूनसिटी-एफसीदलस्य समतायाः प्रयत्नाः विफलाः अभवन्। तथापि, ४९-क्षणे १६-वीं गढ़वालसैन्यदलस्य सूरजः प्रथमं उपलब्धिं प्राप्तवान्।

द्वितीयार्धे अपि दशक्रीडकै: क्रीडमानं गढ़वालसैन्यदलं शक्तियुक्तं प्रदर्शनं प्रदर्शितवान्। अष्टाशीतितमेक्षणे एन्जेलरावतः द्वितीयं गोलं सम्पाद्य दलं २-० इति अग्रिमं कृतम्।
दूनसिटी-एफसीदलस्य स्नेहलक्षेत्री नवतितमेक्षणे एकं गोलं कृत्वा प्रतिस्पर्धायाः पुनरागमनं कृतवान्। किन्तु समयस्य समाप्त्या, गढ़वालसैन्यदलं निर्णायकविजयं प्राप्य सप्ततितमं गढ़वालपदकं पुनः स्वनामकृतम्।

सर्वश्रेष्ठक्रीडक: (स्पर्धाया: सर्वोत्तमक्रीडक:) एन्जेलरावतः (षड्गोलस्य कृते) एवं च सर्वश्रेष्ठगोलरक्षक: मनीषः सम्प्राप्तौ।
प्रतियोगिता ५ जनवरीतः आरभ्य विविधासु स्पर्धासु उत्कृष्टं प्रदर्शनं साक्षात्कृतम्। निर्णायकेषु प्रकाशः, रोहितः, शिवमः च आसन्। विशेषे ऋतिकः, शिवमनेगी, इन्द्रः च आसन्।
विवरणप्रस्तुतकर्तार: तरुण: इष्टवालः, मेहरबाननेगी च कृतवन्तौ। स्वर्गीयशशिधरभट्टस्मृतिखेलसंस्थायाः अध्यक्षः अरुणकुमारभट्टः, उपाध्यक्षः मनीषभट्टः (गोल्डी), सचिवः सुनीलरावतः, सहसचिवः गोपालजसोला, कोषाध्यक्षः अरविन्दबंसलः च समस्तखेलप्रेमिणः च उत्साहेन उपस्थिता: आसन् । एवं च गढ़वालपदकस्य एषः सफलः संस्करणः गढ़वालसैन्यविजेतादलेन समापनं प्राप्तवान्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button