देहली

उत्तराखण्डस्य डा.ज्योतिप्रसादगैरोला जामिया-विश्वविद्यालये देहल्यां प्राचीनभारतीयकौटिल्य-कालिकराजव्यवस्थायां शोधपत्रं प्रास्तौत्

जनवरीमासे त्रयोविंशतितारिकायां चतुर्विशत्यधिकद्विसहस्रतमे ख्रिष्टाब्दे जामिया-मिल्लिया-इस्लामियाविश्वविद्यालये आयोजितायां द्वि-दिवसीयराष्ट्रियसङ्गोष्ठ्यां डॉ. ज्योतिप्रसादगैरोला प्राचीनभारतीयकौटिल्यकालिक- राजव्यवस्थायां स्वविचारान् प्रास्तौत्। स: उत्तराखण्डराज्यस्य
भांगलाग्रामस्य टिहरीगढ़वाल-जनपदस्य निवासी वर्तते।

कौटिल्यसमयस्य राजव्यवस्थायाः उत्कृष्टतत्त्वानि (यथा राजत्वसिद्धान्तः, सप्ताङ्गावधारणा, लोककल्याणकारि राज्यम्, भ्रष्टाचारनियन्त्रणनीतिः, धर्मनीतिः, विदेशनीतिः इत्यादिषु गैरोलाद्वारा जगतः वर्तमानसमस्यानां समाधाने प्रासङ्गिकता उक्ता।

अस्मिन् परिप्रेक्ष्ये प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिवर्यस्य सर्वकारस्य नेतृत्वे वर्तमानेपि भारतसर्वकारेण सुशासनं, भ्रष्टाचारनियन्त्रणकार्यवाही , लोककल्याणकारि राज्यं, सामाजिक-धार्मिक-आर्थिक-न्यायः, विश्वपटले भारतं विश्वगुरुरूपेण प्रतिष्ठितं कर्तुं प्रयासः एवमादीनि कार्याणि प्राचीनकौटिल्यकालस्य राजव्यवस्थायाः गौरवप्रेरितानि सन्ति। आगामिसमस्यानां समाधानेऽपि कौटिल्यराजव्यवस्था प्रेरयति।

अवसरेऽस्मिन् प्रो० इकबालहुसैनः कार्यवाहकः कु‌लपतिः जामियामिल्लिया-इस्लामिया-देहलीत:, प्रो० मुरलीमनोहरपाठकः कुलपतिः लालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालय-देहलीत:, प्रो० गिरीश्वरमिश्रः पूर्वकुलपतिः वर्धाविश्वविद्यालयत: आदय: विभन्नगणमान्याः विभिन्नविद्वासः विभिन्न शोधार्थिन: उपस्थिताः अभवन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button