संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

देशस्य सेवायै राष्ट्रियविकासाय च निरन्तरप्रयत्नाः करणीयाः- ‘रमाकान्तकुकरेती’

वयं राष्ट्रे जागृयाम जागरूका: च भवाम:- "रोशनबलूनी"

कण्वघाट्यां राजकीयवरिष्ठमाध्यमिकविद्यालये ७५तमः गणतन्त्र-दिवसः अतीव उत्साहेन आचरितः । प्रथमं ध्वजं विद्यालयस्य प्रधानाचार्य: रमाकान्तकुकरेती सम्प्रसारितवान्। सर्वप्रथमं विद्यालयस्य प्राचार्यः शिक्षकान् छात्रान् च गणतन्त्रदिवसस्य शुभकामनाम् अयच्छत्। स्वसम्बोधने देशाय स्वप्राणार्पितवद्भ्य: बलिदानिभ्य: श्रद्धाञ्जलिम् अर्पयन् सः अवदत् यत् वयं तेषां त्यागं च बलिदानं सर्वदा स्मर्य बलिदानिनां दर्शितमार्गम् अनुसरणं कर्तुं निरन्तरं प्रयत्नं कुर्म:। अस्माभिः सर्वदा देशस्य सेवायै राष्ट्रियविकासाय च निरन्तरप्रयत्नाः करणीयाः | एतदर्थम् अस्माभिः सुशिक्षा, महापुरुषाणां कथाः च आत्मसात्करणीया: । तदा एव वयं राष्ट्रं प्रगतेः मार्गे अग्रे नेतुं शक्नुमः।

सांस्कृतिककार्यक्रमात् पूर्वं छात्रैः त्रिरङ्गसभा कृता । सभायां जयघोषम् उद्धृत्य सम्पूर्णं क्षेत्रं राष्ट्रियीकरणं जातम् । विद्यालयपरिसरतः मिलनचौकपर्यन्तं सभा गता। पुनः विद्यालयम् आगत्य तत् सम्पूर्तिरभवत्। तदनन्तरं छात्रैः सांस्कृतिककार्यक्रमः प्रदत्तः। विद्यालयस्य पक्षतः सर्वेभ्यः प्रतिभागिभ्यः पुरस्काराः अपि वितरिताः।

अस्मिन् अवसरे रोशनबलूनी महोदयः अतिथिरूपेण आसीत् । श्रीबलूनीद्वारा कथितं यत् जनानाम् तन्त्रे वयं संवैधानिकाधिकारै: सह प्रतिबद्धा: भवाम: मौलिकारान् वयं जानीम: तेन प्रोक्तं यत् वयं राष्ट्रे जागृयाम जागरूका: च भवाम:। कार्यक्रमस्य सञ्चालनं राकेशमोहनध्यानीद्वारा विहित: । अवसरेस्मिन् सुखदेवशाह:, उमेशचन्द्र:, मंजूनेगी, अनुराधा जोशी, महेशचन्द्र: रजवार: आदय: शिक्षका: कर्मचारिण: आदयश्च उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button