संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशधार्मिक

सान्नपूर्णायां सविश्वनाथायां काश्यां प्रकटित: शिव:।

अयोध्यायां श्रीरामस्य प्रतिष्ठापनाया: अनन्तरं श्रीरामस्य दर्शनार्थी रामेश्वर: काश्यां प्रकटित:।

ASI इत्यस्य पुरातत्वविभागस्य सर्वेक्षणस्य शोधान्वेषणविवरणे स्वीकृतं यत् काश्यां प्राचीनहिन्दूमन्दिरस्य स्थाने एव ज्ञानवापी मसजिदभवनं रचितम् अस्ति – वाक्कील: विष्णुशंकर: जैन:।

श्रीकाशीविश्वनाथमन्दिरेण साकं संयुक्तस्य ज्ञानवापीमस्जिदपरिसरस्य भारतीय पुरातत्वसर्वेक्षणस्य सर्वेक्षण विवरणं बुधवासरे एव जनपद-न्यायाधीशेन डॉ. अजयकृष्णविश्ववेशस्य न्यायालयेन सार्वजनिकीकृतम् अस्ति। विवरणस्य अनुसारेण, ज्ञानवाप्यां प्राचीनमन्दिरस्य संरचना प्राप्ता अस्ति। एतस्मिन् विवरणे हिन्दू पक्षेण प्रसन्नता। प्रकटिता अस्ति। तेषां कथनमस्ति यत् विश्वनाथबाबा प्रकटित:। सर्वेक्षण-विवरणस्य अनुसारेण सर्वमपि स्पष्टीकुरुते। मन्दिरस्य भञ्जनं कृत्वा मस्जिदमिति निर्मितम् आसीत्, इत्यपि सम्प्रति स्पष्टमस्ति। सम्प्रति हिन्दुजनेभ्यः पूजा-पाठयो: अनुमति: अधिगत: भवेत् । अपरत्र च मुस्लिम-पक्षेण विधिक-न्यायिक-युद्धम् अग्रे वर्धनस्य घोषणा कृतास्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button