संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

संस्कृते परास्नातिका कोटद्वारमहाविद्यालयत: स्वर्णपदकधारिका आंचलबिष्ट: बी.एड. संलग्ने सति राष्ट्रीयपात्रतापरीक्षायां रचितवती इतिहासम्

महाविद्यालयस्य प्राचार्या च मार्गदर्शिका: अभवन् भावुका:

कोटद्वारं । महाविद्यालये कोटद्वारे नेट्-परिणामस्य घोषणानन्तरं सर्वत्र प्रसन्नताया: वातावरणं तदा समुत्पन्नम् आसीत् यदा बहवः छात्राः नेट् इत्यस्मिन् सफला: अभवन्।
विशेषतः संस्कृते एम.ए.-विषये स्वर्णपदकं प्राप्तकर्त्री आञ्चलविष्टः संस्कृते नेट्-परीक्षां उत्तीर्य स्वर्णिमितिहासस्य निर्माणं कृत्वा अन्यभाषाणां श्रेष्ठतायाः गौरवं भङ्गं कृतवती । स्वर्ण-तेजस्वी-तारिका आञ्चलबिष्टः राजकीयस्नातकोत्तरमहाविद्यालयस्य संस्कृतविभागस्य छात्रा वर्तते । सा प्रथमवारं यू.जी. C.NET इत्यस्यां परीक्षायाम् उत्तीर्णा अभवत् । एतदेव न अपि तु कोटद्वारमहाविद्यालयस्य आंचलबिष्टः एम.ए. पदव्यां श्रीदेवसुमनविश्वविद्यालयबादशाहीथौलटिहरीगढ़वालत: स्वर्णपदकविजेता अपि अस्ति। आञ्चलस्य संस्कृतविषयाध्ययनस्य विशेषरुचिः आसीत्, अस्याः रुचिः, उत्साहः, समर्पणं च कारणात् सा गन्तव्यस्थानं प्राप्तुं सफला अभवत् । न केवलम् एतत् अपितु सफलपरिश्रमस्य आधारेण सा सम्प्रति बी. एड् इत्यत्र अपि अध्ययनं करोति । तस्याः स्वप्नः संस्कृतक्षेत्रे उच्चशिक्षायां नूतनाम् उपलब्धिं प्राप्तुं वर्तते।वास्तविकतया सा स्वमार्गदर्शकानां पदम् अनुसृत्य प्राध्यापिका भवितुम् इच्छति।

आंचलबिष्टः चैलुसैणस्य सरस्वतीशिशुमन्दिरतः प्राथमिकशिक्षां तथा ९ कक्षातः १२ कक्षापर्यन्तं माध्यमिकशिक्षाम् अधीतवती । बी.ए.कक्षा सा कोटद्वारभाबरमहाविद्यालयात् उत्तीर्णं कृतवती। सम्प्रति सा बी.एड् छात्रा अपि अस्ति। आञ्चल: उत्तराखण्डस्य जुडूग्रामस्य निवासी अस्ति। तस्याः परिवारे पिता श्री देवेन्द्रसिंह: बिष्ट:, माता देवेश्वरबिष्ट:, भ्राता अक्षयबिष्ट: च सन्ति।
तया सफलतायां कथितं यत् प्राचार्यमहोदयाया: शुभाशीष: प्रसन्नता च वस्तुतः अतीव भावुकम् आसीत्। तेषां सुखं प्रकटयितुं मम शब्दाः न सन्ति।

अवसरेस्मिन् प्राचार्या प्रो. जानकीपंवारवर्या छात्रां पुरस्कृत्य उज्ज्वलभविष्यस्य कृते अग्रे गच्छन्तीति आग्रहं कृत्वा कार्यं सफलतायाः सोपानं इति वदन् आशीर्वादं दत्तवती। सा राष्ट्रीयपात्रतापरीक्षाया: उत्तीर्णतां श्रुत्वा प्रसन्नां भूत्वा तत्कालं धनराशिद्वारा पुरस्कृतवती च कण्ठालिंगेन सह बहुशुभकामनां दत्तवती।

संस्कृतविभागस्य प्रभारीद्वारा डा.अरणिमामिश्राद्वारा अस्मिन् सुखदक्षणे कथितं यत् सर्वेषां कृते अतीव प्रसन्नताया: क्षण: आसीत् वयं बहुभावुका: स्म: । सा अवदत् यत् संस्कृतविभागस्य प्राध्यापिका: कठिनपरिस्थितौ छात्राणां प्रतिभावर्धनार्थं महान् कार्यं कृतवत्य: तदर्थं एतासां सर्वासां धन्यवादं अभिनन्दनं च । तया छात्र शोधोपाधये अपि प्रेरिता । सहैव डॉ. रोशनी असवाल: एवं प्रियम-अग्रवाल: छात्राया: सफलतायै हार्दिकम् अभिनन्दनं एवं शुभकामनां च दत्तवत्य: । संस्कृतसमाजसेवकः पौडीत: च संस्कृतभारत्याः सहसंयोजकः तथा च रा.इ.का.कोटद्वारस्य संस्कृताध्यापकेन कुलदीपमैन्दोलाद्वारा महाविद्यालयस्य प्राचार्यां, संस्कृतविभागप्रभारीं च मार्गदर्शिकां च अभिवादनं कृत्वा कृतज्ञतां प्रकटितवान् यत् एतादृशसफलतायाः कारणेन संस्कृतजगतः प्रसिद्धिः वर्धिता अस्ति । आधुनिकसमाजस्य यत्र जनाः संस्कृतात् पलायन्ते, तत्र आञ्चलः वस्तुतः छात्राणां कृते अद्भुतं उदाहरणं स्थापितवती ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button