संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीताल

श्रीरामस्य आदर्शान् मानवाः स्वजीवने धारयेयुः-प्रोफेसर एम.सी.पाण्डेमहोदयः

वार्ताप्रेषकः-डॉ.मूलचन्द्रशुक्लः।रामनगरम्। सरोकार-साहित्यिक- सांस्कृतिक-संस्था-रामनगरम् , पी.एन.जी.राजकीय-स्नातकोत्तर- महाविद्यालय-रामनगरं च उभयोः संयुक्त-तत्त्वावधाने “लोके रामः” इति विषयं पुरस्कृत्य एकस्य/एकस्याः विचारस्य/संवादगोष्ठ्याः आयोजनं विहितम्। कार्यक्रमस्य मुख्यवक्तृत्वेन उत्तराखण्ड-विद्यालयी-शिक्षा-परिषद्रामनगरस्य संयुक्तसचिवेन विनोदप्रसादसिमल्टीमहोदयेन आध्यक्ष्यं च महाविद्यालयस्य प्राचार्येण प्रो.एम.सी.पाण्डेमहोदयेन निर्व्यूढम्। विचार-गोष्ठी-सत्रे इतिहास- विभागस्य प्राध्यापकः डॉ.शरदभट्टमहोदयः वक्ति यत् श्रीरामो भारतीयायाः चिन्तनपरम्परायाः आदर्शव्यक्तित्वं वर्तते। 500 (पञ्चशतात्मकवर्षाणां) दीर्घकालानन्तरम् अयोध्यायां श्रीरामस्य प्राणप्रतिष्ठा-माध्यमेन सनातन-भारतीय-मूल्यानां प्रतिष्ठापनमस्ति यच्च कलिकाले रामराज्यस्य सङ्कल्पनां मूर्तरूपं प्रस्तोष्यति। डॉ.शंकरमण्डलः वदति यत् श्रीरामस्य आदर्श-चरित्रं स्वाचरणे अवतारयितुं यत्नो विधेयः। संस्कृत-विभागस्य प्रभारी डॉ.मूलचन्द्र- शुक्ल-महोदयेन शास्त्रियव्याख्यापुरस्सरं प्रोक्तं यत् श्रीरामः लोकरञ्जकरूपेण लोकमङ्गलरूपेण च अस्मत्समक्षं समायाति। तेनोक्तं यत् अवधनगर्यां श्रीरामस्य प्राणप्रतिष्ठानन्तरं भारतीयसंस्कृतिसंस्कारयोः जागरणमपि भविष्यति।राज्यकराधिकारी मितेश्वर: आनन्द-महोदयः लोक-शब्दस्य अवधारणा लोके रामस्य महत्त्वविषये च स्वोद्बोधनं दत्तवान्। मुख्यवक्ता विनोदप्रसादसिमल्टीमहोदयः सारगर्भितं व्याख्यानं प्रस्तुवन् अवोचत् यत् रामस्य मर्यादितजीवनेन जनाः सामाजिकनैतिकतां प्रति स्व-अवदानपुरस्सरम् अग्रेसर्तुं प्रयासं करिष्यन्ति। सः अस्मिन् प्रसङ्गे विविध-प्रासङ्गिक-उदाहरणादिमाध्यमेन जनान् सम्मोहयति। सरोकार-संस्थायाः सचिवः डॉ.अनुपम-शुक्लमहोदयः स्ववक्तव्ये अकथयत् यत् रामचरितं “वसुधैव कुटुम्बकम्” इति भारतीयभावनया विश्वकल्याणाय मार्गमन्वेषयति। स्व-अध्यक्षीयोद्बोधने महाविद्यालयीय-प्राचार्यः प्रो.एम.सी.पाण्डे महोदयः गोस्वामीतुलसीदास- विरचित-दोहावली रामचरितमानसश्च उभयो: आधारेण रामराज्यस्य विविध- सङ्कल्पनाः अत्यन्तं मधुरशैल्या प्रस्तूय कार्यक्रमस्य भावपूर्णं समापनं च कृतवान्। डॉ. अलका,डॉ. शिप्रा पन्तः,डॉ.सुमनकुमारः च स्व-स्वमधुर-स्वरेण भजनं प्रस्तूय संवादगोष्ठ्याः वातावरणं राममयं कृतवन्तः। विचारगोष्ठीं महाविद्यालयीयः समारोहकः डॉ.डी.एन.जोशीमहोदयः सञ्चालयति। तेन विशिष्टशैल्या स्वविचारं प्रस्तुतं। अस्यां विचारगोष्ठ्यां प्रो. एस.एस. मौर्यः, डॉ.आर.एस.कनौजिया, डॉ.प्रमोदजोशी,डॉ.भावना पन्तः, डॉ.निवेदिता अवस्थी,डॉ.कृष्णा भारती, मनोजपाठकः शिवाकान्तशुक्लादयः अन्ये च जिज्ञासवः उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button