जनतावरिष्ठमाध्यमिकविद्यालयलियाखाले ७५ तम: गणतन्त्रदिवस: समाचरित:

७५ तमे वर्षे गणतन्त्रदिवसस्य शुभावसरे
जनतावरिष्ठमाध्यमिकविद्यालये लियाखाले विद्यालयपरिवारस्य सदस्यैः पूर्ववर्तमानसेवासैनिकानाम् अभिनन्दनसमारोहस्य आयोजनं कृतम्। कार्यक्रमस्य आरम्भः दीपप्रज्ज्वलनं, महापुरुषाणां चित्राणां मालाकरणं च मुख्यातिथिना ध्वजारोहणेन च अभवत् ।
प्रधानाचार्येण दीपकरावतद्वारा अतिथीनाम् अभिनन्दनं स्वागतं माल्यार्पणं च कृतं।
कार्यक्रमस्य मुख्यातिथिः सहायक: कमाण्डन्ट् जगमोहनसिंहरावतः एकभारतश्रेष्ठभारतस्य विषये चर्चां कृतवान् तथा च देशवासिनां कृते गणतन्त्रदिवसस्य शुभकामनाम् अयच्छत्।अस्मिन् अवसरे सम्मानितपूर्ववर्तमानसैनिकैः स्वस्मृतयः संयुक्तीकृताः। सुबेदार इति अनूपरावत: विशेषातिथि: , नायक: सूबेदार: सुरेन्द्रसिंह:, विजयसिंहरावत:, हरिसिंह:, मनदीपरावत:, राजेसिह:, साधुसिंह:, गजेसिह:, मंगलसिंहनेगी, क्षेत्रपंचायतसदस्य: श्रीगिरीशढौंडियाल:, ग्रामप्रमुख: श्री राजपालरावत:, महिलामंगलाध्यक्षदलत:, कुसुमदेवीद्वारा अपि स्वविचारा: प्रकटिता:। अवसरेस्मिन् विपिनगोसाई, जयदीपबिष्ट:, नरेन्द्ररावत:, शालिनीरावत:, सुमनकलीभारती, आरतीरौथाण:, शकुन्तला देवी, गायत्री देवी, बलबीररावत:, पृथ्वीपाल:, आदय: गणमान्यजना: उपस्थिता: इसन् । मंचसंचालनं डॉ. शैलेन्द्रगिरिद्वारा तथा सुमनढौंडिण्डियाद्वारा सम्पादितम्।
अस्मिन् अवसरे विद्यालयपरिवारस्य सदस्यैः कार्यालयस्य लिपिकस्य स्वर्गीयस्य मनीषनेगी इत्यस्मै हार्दिकं श्रद्धाञ्जलिम् अर्पितं, यः अद्यैव हृदयविफलतायाः कारणेन सहसा दिवंगत:।