देश

एयरइंडिया-वायुयानस्य सुरक्षितम् आकस्मिकं अवतरणं कारितम्

हाइड्रोलिक-प्रणाल्यां तकनीकी-विफलतायाः परिज्ञानानन्तरं त्वरितं त्रिचीविमानपत्तने एव विमानस्य सुरक्षितम् आकस्मिकं अवतरणं कारितम्। विमानेऽस्मिन् १४१ जनाः यात्रिणः आसन्।

वार्ताहर:- आचार्यः छविरमणोऽयम्।
एएक्सबी-६१३ इति संख्याकस्य एयरइंडिया-वायुयानस्य आकस्मिकम् अवतरणं सफलं जातम्। तमिलनाडुराज्यस्य त्रिचीनगरस्य अन्ताराष्ट्रीयविमानपत्तनात् संयुक्तारबामीरातदेशस्य शारजहाँनगरं प्रति गच्छतो वायुयानस्य सफलम् आपत्कालीनावतरणं जातम्। उक्तविमानस्य हाइड्रोलिक-प्रणाल्यां तकनीकी-विफलतायाः परिज्ञानानन्तरं त्वरितं त्रिचीविमानपत्तने एव विमानस्य सुरक्षितम् आकस्मिकं अवतरणं कारितम्। विमानेऽस्मिन् १४१ जनाः यात्रिणः आसन्। आकस्मिकावतरणात् पूर्वं विमानमिदं सार्धद्विहोरापर्यन्तं आकाशे एवं उड्डीयमानम् आसीत्। आकस्मिकावतरणे त्रिचीविमानपत्तने उच्चसजगता आसीत्। सर्वाण्यपि रक्षणसंसाधनानि स्थापितानि आसन्। आकस्मिकावतरणस्य कृते बेली-अवतरणस्य विकल्पमपि स्थापितमासीत्। परं तस्य आवश्यकता नापतिता। ध्यातव्यमस्ति यत् विमानचालकसमूहस्य विवेकेन अस्य विमानस्य सुरक्षितम् आकस्मिकम् अवतरणं जातम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button