संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
राजस्थानसंस्कृत भारती

संस्कृतभारत्याः अखिलभारतीयसम्मेलनम् राजस्थानस्य योद्धपुरे सम्पन्नम्

✓ संस्कृतसंकल्पः च वक्तृणां कथनं - अस्माकं संस्कारा: संस्कृते निहिताः तथा आकर्षणे संस्कृतप्रदर्शनी प्रभावी। ✓ संगोष्ठ्यां भविष्ययोजनाविषये अभवत् चर्चा । ✓ संस्कृतभारत्याः कार्यस्य आरम्भः १९८१ तमे वर्षे अभवत्। ✓ संस्कृतभारत्या: ४२ वर्षत: निरन्तरं सम्भाषणान्दोलनेन कोटिश: जना: संस्कृतेन वदन्ति। ✓ उप-चत्वारिंशत् राज्यतः कार्यकर्तारः अखिलभारतीयसम्मेलने संलग्ना: आसन् । ✓ देशविदेशयो: विद्वांस:: मन्त्रिणश्च सम्मेलने प्रतिभागं कृतवन्त: । ✓ संस्कृतभारत्या सह सम्बद्धाः युवानः, वृद्धाः, महिलाः, बालकाः च संस्कृतं व्यवहारभाषां कृतवन्त: । ✓ कार्यकर्तृणाम् उत्साहं विलोक्य गुरुकुलपरम्पराया: पुनरुत्थानं सजीवः सञ्जात: । ✓ जनै: योद्धपुरस्य इतिहासं स्थलभ्रमणेन अपि ज्ञातं । ✓ संस्कृतभारत्या: विभिन्नदायित्वे सञ्जातं नूतनपरिवर्तनं। ✓ कार्यकर्तृभि: अन्तर्जालमाध्यमेन संस्मरणीया: अनुभवा: प्रकटिता: । ✓ श्रीगिरीशतिवारी उत्तराखण्डस्य नवप्रान्तमन्त्री।

राजस्थानम्। संस्कृतभारत्याः शनिवासरे सुदर्शनसेवासंस्थाने अखिलभारतीयगोष्ठ्या: जोधपुरराजस्थाने आयोजनं सञ्जातं। चत्वारिंशत् प्रान्तेभ्यः सहस्राधिकाः कार्यकर्तार: स्वजीवने संस्कृतसंकल्पं स्वीकृतवन्तः । राजस्थानस्य योद्धपुरे केरलतः 17 एवं च दश प्रान्तीयसमित्या: कार्यकर्तार: पदाधिकारिण: अपि भागं स्वीकृतवन्तः। तेषाम् अनुभवे कथनलेखनं विद्यते यत् मेलनं प्रभावी, प्रेरणात्मकम् च अभवत् । कार्यावलोकनम् , अग्रे करणीयानि कार्याणि च गोष्ठ्या: चर्चाविषयाः आसन् । संस्कृतभारत्याःव्यवस्थाया: कृते उप – चत्वारिंशत् राज्यतः कार्यकर्तारः आसन् ।मालीतः(इन्टोनेष्या ) अपि आसीत् । मेलनम् समाप्य केचन योद्धपूरदर्शनम् अन्ये लोकसभामन्दिरम् च दृष्टवन्तः ।

नवदायित्ववान् उत्तराखण्डप्रान्तमन्त्री श्रीगिरीशतिवारीवर्य: अपि स्वसंकल्पं विलिखितवान्। संस्कृतभारत्या: अखिलभारतीयगोष्ठ्यां २८,२९ अक्टूबर २०२३ दिनांके सम्पद्यमाने सम्मेलने जोधपुरराजस्थाने संघटनेन माम उत्तराखण्डस्य प्रान्तदायित्वेन घोषित:। यस्मिन् गुरुतरदायित्वे उत्तराखण्डप्रान्तमन्त्रीरूपेण मम सर्वविधसमर्पणं संस्कृतिहिताय एव भविष्यति । तदर्थं वयं सर्वे कार्यकर्तार: मिलित्वा संघटनं दृढं कर्तुं पूर्णप्रयासं करिष्याम: ।

परशुरामगिरिमहाराजः सम्मेलने अवदत् यत् संस्कृतभारत्याः कार्यकर्तारः ये स्वजीवने संस्कृतं आलिंगितवन्तः तेषां कार्यं दृष्ट्वा भारतस्य गुरुकुलपरम्परा पुनः सजीवः भवति इति भासते। प्रदेशाध्यक्ष: तुलसीदासशर्मा सहकार्यसंलग्नान् कार्यकर्तृन् प्रोत्साहितवान् ।

✓✓*भारतीयसंस्कृतेः रक्षणं संस्कृतभाषाद्वारा एव सम्भवति—-
“मुख्यातिथि:- निर्मलगहलोत:”*✓✓

अखिलभारतीयसंगोष्ठ्यां सम्पद्यमाने सम्मेलने जोधपुरराजस्थाने वक्तृभि: कथितम् यत् अस्माकं संस्कारा: संस्कृते एव निहिताः सन्ति चात्र संस्कृतभारत्या: मुख्याकर्षणकेन्द्रे प्रदर्शनी प्रेरणीया आसीत् । अवसरेस्मिन् राजस्थानस्य क्षेत्रसंयोजक: डॉ.तगसिंहराजपुरोहितः अवदत् यत् संस्कृतभारत्या सह सम्बद्धाः युवानः, वृद्धाः, महिलाः, बालकाः च संस्कृतं स्वस्य वाच्यभाषां कृतवन्तः। मुख्यातिथि: उत्कर्षसंस्थानस्य निदेशकः निर्मलगहलोत: उक्तवान् यत् भारतीयसंस्कृतेः रक्षणं संस्कृतभाषाद्वारा एव सम्भवति। सत्यमार्गं प्रति अपि सम्पूर्णं जगत् प्रेरयति। विज्ञानस्य प्रौद्योगिक्याः च एतां भाषां स्वजीवने आनयन् आधुनिकविज्ञानेन सह शास्त्राणाम् अध्ययनं करणीयम्।आत्मज्ञानार्थं संस्कृतपठनेन सह सम्पूर्णं जगत् संस्कृतपठने प्रतिबद्धं भवितुमर्हति।

✓✓*प्रथमे लक्षशःसम्भाषणे समर्थाः द्वितीये सङ्गठनकार्यं तृतीये कार्यकर्तृनिर्माणं चतुर्थे संस्कृतं जनसामान्यं प्रति पञ्चमचरणे देशविश्वहिते कार्यं — “सत्यनारायणभट्टः अ.भा.म.म. सं.भा.”*✓✓

संस्कृतभारत्याः अखिलभारतीयमहामन्त्री सत्यनारायणभट्टः अवदत् यत् संस्कृतभारत्याः कार्यस्य आरम्भः १९८१ तमे वर्षे अभवत् । ४२ वर्षत: अस्या: कार्यं निरन्तरं संजायते । प्रथमचरणे १० वर्षेषु संस्कृतसंभाषणशिबिरद्वारा लक्षशः जना: प्रशिक्षणेन संस्कृतभाषायां वार्तालापं कर्तुं समर्थाः कृताः । द्वितीयचरणे संस्कृतभारतीसङ्गठनस्य कार्यं सुदृढं जातम् । तृतीयचरणे कार्यकर्तृनिर्माणं चतुर्थचरणे च संस्कृतभाषां जनसामान्यं प्रति नेतुम् संभाषण-आन्दोलनं चालितं। अधुना वयं पञ्चमे चरणे स्मः। भारतस्य कृते एष: काल: सुवर्णकालः, संस्कृतभाषायाः विकासस्य पुनरुत्थानस्य च समयः अस्ति । अतः वयं सर्वे देशहिताय विश्वहिताय च संस्कृताय कार्यं करिष्यामः। अवसरेस्मिन् संस्कृतभारत्या:अखिलभारतीयाध्यक्ष: प्रो. गोपबन्धुमिश्रः अवदत् यत् सम्पूर्णं विश्वं प्रति गौरवमयं एतत् यतोहि संस्कृतशास्त्राध्ययनेन भारतस्य ज्ञानपरम्परायाः पुनः समृद्धिः संजायते।
। सम्मेलनेस्मिन् रामदत्त: चक्रधर: हुलाश्चन्द्र: प्रो. सत्यप्रकाशदुबे, प्रदेशमंत्री लीलाधरशर्मा, हरदयालवर्मा, योगेन्द्रकुमार:, मंगलाराम:, भुवनेशव्यास:, लक्ष्मणसिंहगहलोत:, महेश: दधीच:, प्रो. भानारामगाडी, प्रो. सुनीलमेहता, श्रावणविष्णोई, दिनेशगौड: इत्यादिभि: सहस्रजनै: सह पदाधिकारिण: प्रतिभागं कृतवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button