उत्तराखण्डसंस्कृताकादमीद्वारा कन्यापाठशालामंगलौरहरिद्वारे कविसम्मेलनम्
महात्मागान्धिन: पुण्यतिथौ च भारतस्य भूतपूर्वप्रधानमन्त्रिणः पुण्यश्लोकस्य श्रीलालबहादुरशास्त्रिणः स्मरणसभायां काव्यसत्रं भविष्यति

विदितमस्तु सर्वेषां संस्कृतानुरागिणां यत् उत्तराखण्डसंस्कृताकादम्याः तत्त्वावधाने पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे अक्तूबरमासस्य तृतीये दिनाङ्के भृगुवासरे प्रातः सार्धदशवादने अखिलभारतीयसंस्कृतकविसम्मेलनस्य भव्यमायोजनं भविष्यति ॥ इदं सम्मेलनं हरिद्वारक्षेत्रान्तर्गते मङ्गलौरे केवलकल्याणपाठशालान्तरमहाविद्यालयस्य प्राङ्गणे सम्पत्स्यते ॥
अस्य महासम्मेलनस्य प्रमुखमुद्देश्यं गीर्वाणवाण्याः प्रचारप्रसारसंवर्धनं संस्कृते नूतनकाव्यानां सर्जनाय कवीनां प्रोत्साहनं चास्ति ॥ अस्मिन्नेवावसरे महात्मागान्धिन: पुण्यतिथौ च भारतस्य भूतपूर्वप्रधानमन्त्रिणः पुण्यश्लोकस्य श्रीलालबहादुरशास्त्रिणः स्मरणसभायां काव्यसत्रं
भविष्यति ॥
अस्य कार्यक्रमस्याध्यक्षपदमलङ्करिष्यति हरिद्वारस्थस्य जीवनदीपाश्रमस्य परमहंसमण्डलेश्वरः श्रीस्वामी यतीन्द्रानन्दगिरीमहाराजः ॥ मुख्यातिथिरूपेण उत्तराखण्डस्य पूर्वमुख्यमंत्री एवं च वर्तमाने सांसद: माननीय: त्रिवेन्द्ररावत: सभामलंकरिष्यति । देहरादूनतः उत्तराखण्डशासनस्य संस्कृतशिक्षासचिवः श्रीमान् कुमारदीपकः अतिविशिष्टातिथिरूपेण अपि च रुडकीनगरस्थस्य भारतीयोच्चाध्ययनसंस्थानस्य निदेशकः प्राध्यापकः पन्तः कमलकिशोरः समुपस्थास्यत: । विशिष्टातिथिरूपेण डा. रवीन्द्रकपूर: सम्मेलनशोभां वर्धयिष्यति ।
अस्य समग्रस्य कार्यक्रमस्य संयोजिकारूपेण केवलकल्याणपाठशालायाः प्राचार्या दीपिका कार्यं निर्वक्ष्यति ॥ उत्तराखण्डसंस्कृताकादम्याः शोध-अधिकारी श्रीमान् हरिशचन्द्रगुरुरानी समन्वयकस्य दायित्वं तथा च अकादम्याः सचिवः श्रीमान् आनन्दभारद्वाज: मुख्यसमन्वयकस्य दायित्वं च निर्वक्ष्यतः ॥
अतः अकादम्या सर्वे सादरं प्रार्थिता: यत्ते भूयिष्ठया सङ्ख्यया तत्रोपस्थाय वाग्देव्याः समारोहमिमं सफलं कुर्युः अस्य शोभां च वर्धयेयुः ॥







