हरिद्वारे संस्कृतविश्वविद्यालये देशभक्तिगानोत्सव:

उत्तराखण्डसंस्कृतविश्वविद्यालये हरिद्वारे आज़ाद्या अमृतमहोत्सवान्तर्गतं गृहे गृहे त्रिरङ्गध्वज इति कार्यक्रमस्य भागतया देशभक्तिसमूहगानप्रतियोगिता सफला समायोजिता। तस्यां च पञ्चदलाः सोत्साहं भागं गृहीतवन्तः। स्पर्धायाः परिणामेषु आयुषसमूहेन प्रथमं प्राचीसमूहेन द्वितीयम् अमितासमूहेन च तृतीयं स्थानं प्राप्तम्॥
अस्याः प्रतियोगिताया निर्णायकमण्डले विद्वान् चमोलीसुशीलकुमारः मुख्यनिर्णायिका च साहित्यविभागस्य सहायकाचार्या विदुषी तिवारिकञ्चना आस्ताम्॥
कार्यक्रमस्य सहसंयोजिका श्रीमती रावतमीनाक्षीसिंहा उवाच यदेतादृशीभिः स्पर्धाभिरेव छात्रेषु नायकत्वक्षमाया विकासः सञ्जायत इति। यथा शास्त्रेषूक्तम् उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम्। शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः॥
अथ कार्यक्रमसंयोजकः पन्तप्रकाशचन्द्रोऽप्यभाषत यत् प्रथमद्वितीयतृतीयस्थानविजेतारश्छात्राः स्वतन्त्रतादिवसपर्वणि प्रमाणపत्रैः सम्मानिता भविष्यन्तीति। तेनेदमपि सूचितं यदस्य वर्षस्य स्वतन्त्रतादिवसः सुविशेषो वर्तते यतो ह्येतद् उत्तराखण्डराज्यस्य स्थापनाया रजतजयन्तीवर्षमपि खलु विद्यते॥