उत्तराखण्ड

समग्रैव शिक्षा उद्योगसंयोगश्च विकसितभारतस्य कुञ्चिकेति प्राध्यापकः सिंहदेवेन्द्रः

उत्तराखण्डराज्यस्य श्रीनगरगढवालक्षेत्रे स्थितस्य हेनबगढवालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण विकसितभारते उच्चशिक्षाया भूमिका इति विषयमधिकृत्य आयोजितस्य लघुकालिकाध्यापकविकासकार्यक्रमस्य उद्घाटनसत्रे शोणप्रस्थस्थस्य डॉ बीआराष्ट्रियविधिविश्वविद्यालयस्य कुलपतिः प्राध्यापकः सिंहदेवेन्द्रोऽवदत् । स विकसितभारतस्य सङ्कल्पनासिद्धये शिक्षाप्रणाल्यां मौलिकपरिवर्तनस्यावश्यकतामवोचत् । परम्परागतपद्धतिभ्यः परं गत्वा समग्रशिक्षापद्धतेः छात्रहितकरप्रणाल्याश्चात्यावश्यकता वर्तते इति तेन बलपूर्वकमुक्तम् ॥

अग्रे स्वसम्बोधने स उक्तवान् यद् ये कुशला मानवा अद्यापि औपचारिकशिक्षायाः परिधेर्बहिः सन्ति तेषां शीघ्रातिशीघ्रं प्रणाल्याम् अन्तर्धानाय सुस्पष्टा नीतिर्निर्मातव्या । एतदेव भारतस्य विश्वगुरुविकसितभारतत्वेन निर्माणे महत्त्वपूर्णं भविष्यतीति तस्य दृढविश्वासः । स विद्याक्षेत्रोद्योगयोः सम्बन्धस्य सुदृढीकरणाय अपि आग्रहं चकार येन पाठ्यक्रमा उद्योगस्य अपेक्षाणामनुरूपा भवेयुः स्नातकाश्च कार्यबलाय सुसज्जिताः स्युः ॥

उल्लेखनीयमस्ति यदयं साप्ताहिकः प्रशिक्षणकार्यक्रमः सप्तदशराज्येभ्यः समागतान् शताधिकान् उच्चशिक्षासंकायसदस्यान् प्रशिक्षयिष्यति ।

हेमवतीनन्दनबहुगुणागढवालविश्वविद्यालयस्य माननीयाः कुलपतयः प्राध्यापकसिंहप्रकाशाः स्वकीये सन्देशे एतादृशकार्यक्रमाणामायोजनार्थम् एम् एम् टी टी सी-गणस्य सततप्रयत्नान् भृशं श्लाघितवन्तः।

एम् एम् टी टी सी-केन्द्रस्य कार्यवाहकनिदेशकैः डाक्टरसिंहराहुलकुंवरैः उपस्थितानां स्वागतं विधाय उच्चशिक्षाया वर्धमाना भूमिका प्रतिपादिता। तैरुक्तं यत् विश्वविद्यालयानां महाविद्यालयानां च दायित्वं न केवलं वृत्तिसक्षमस्नातकनिर्माणपर्यन्तमेव सीमितम् अपितु दायित्वनिष्ठानां नीतिमतां वैश्विकयोग्यतासम्पन्नानां च व्यक्तीनां संवर्धनमपि ये हि भारतं समावेशीविकासस्य सततप्रगतेश्च मार्गे नेष्यन्ति।

अस्य सत्रस्य कार्यप्रवाहे पाठ्यक्रमसमन्वयकेन डाक्टरेण रायहिरण्मयेन कार्यक्रमस्य रूपरेखा प्रस्तुता। केन्द्रस्य कार्यक्रमकार्यकारिण्या डाक्टर् भट्टकवितया सत्रस्य समन्वयः कृतः। तथैव केन्द्रस्य सहायकनिदेशकेन डाक्टरेण सिंहामरजीतसिंहेन सुधियामतिथीनां परिचयो दत्तः। उद्घाटनसत्रस्यास्य समापनं च सहायकनिदेशकस्य डाक्टरथपलियालसोमेशस्य धन्यवादज्ञापनेन मङ्गलपुरस्सरं सम्पन्नमभवत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button