उत्तराखण्डसंस्कृत भारतीहरिद्वार

ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयस्य सभागारे संस्कृतभारत्याः संस्कृतसम्भाषणशिविरं

शिविरसंयोजकः डॉ नवीनपन्तः अवदत् यत् एतत् शिविरं एकविंशतिदिनपर्यन्तं अनवरतं सञ्चालितं भविष्यति

हरिद्वारं। संस्कृतसंभाषणशिविरस्य उद्घाटनं ऋषिकुलविद्यापीठस्य प्राचार्यः डॉ बलदेवप्रसादचमोली, संस्कृतभारत्याः विस्तारकः सन्तोषकुमारः, शिविरसंयोजकः डॉ. नवीनचन्द्रपन्तः चैते संयुक्तरूपेण दीपप्रज्वलनपूर्वकं विधिवद् अकुर्वन्।

प्राचार्यः डॉ. बलदेवप्रसादचमोली महोदयः अवदत् यत् संस्कृतं देवभाषा अस्ति। संस्कृतं सर्वासां भाषाणां जननी अस्ति तथा च वैज्ञानिकभाषा अपि अस्ति। वेदाः, पुराणानि, उपनिषदः, महाकाव्यानि च संस्कृतभाषायामेव लिखितानि सन्ति। संस्कृतसाहित्ये अपाराः संभावनाः सन्ति। संस्कृतं प्रत्येकः व्यक्ति: आत्मसात् कर्तुं प्रयत्नं कुर्यात्। अभ्यासेनैव संस्कृतभाषा वार्तालापभाषा रूपेण स्थायिनी भवितुम् अर्हति।

शिविरसंचालकः सन्तोषकुमारः अवदत् यत् संस्कृतभारत्या संस्कृतविद्यार्थिनः संभाषणकौशले प्रवीणं कर्तुं समये समये विविधविद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु च सम्भाषणशिविराणि आयोज्यन्ते। शिविरम् अपि संस्कृतविद्यार्थिनां सर्वाङ्गीणविकासार्थं आयोजितम्।

शिविरसंयोजकः डॉ नवीनपन्तः अवदत् यत् एतत् शिविरं एकविंशतिदिनपर्यन्तं अनवरतं सञ्चालितं भविष्यति। सर्वे छात्राः उत्साहेन भागं गृह्णन्ति। शिविरे प्रमुखरूपेण अंकितजोशी, अभिषेकगैरोला, हिमांशुजोशी, अथर्वशर्मा, सार्थकथापा, रोहित:, मृदुलशर्मा, हिमांशुचौहान:, सौरभसकलानी, पीयूषपाठक: इत्यादयः छात्राः उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button