श्रीकलामोहनभाषासाहित्यसंगीतकेन्द्रस्य आभासीयराष्ट्रियसंगोष्ठी सम्पन्ना
सन्तरविदासजयन्त्याः प्रसङ्गे महत्वपूर्णम् आयोजनम् अभवत्

मध्यप्रदेशसुखेडा – सन्तरविदासजयन्त्याः अवसरं प्रति श्रीकलामोहनभाषासाहित्यसंगीतकेन्द्रस्य अधीनत्वेन “त्वं चन्दनं वयं वारि” इत्यनेन शीर्षकेन एका राष्ट्रियसंगोष्ठी गूगलमाध्यमेन अन्तर्जालरूपेण आयोजिता।

“सन्तरविदासकृतसाहित्ये मानवीयसंवेदना च समरसता च” इत्यस्मिन् विषये मुख्यवक्ता विक्रमविश्वविद्यालयस्य उज्जयिन्याः कुलानुशासकः डॉ. शैलेन्द्रकुमारशर्ममहोदयः स्वसारगर्भिते उद्बोधने सन्तरविदासमहाभागस्य विचाराणां अनुसरणस्य आवश्यकत च प्रासङ्गिकतां च तेषां पदानां माध्यमेन प्रकाशितवान्।

विशिष्टवक्तारौ राजकीयमहाविद्यालयटोंकस्य प्रा. डॉ. प्रणुशुक्ला तथा राजकीयमहाविद्यालयगोगुण्डायाः प्रा. डॉ. शङ्करलालढोली उदयपुरस्थौ च सन्तरविदासमहाभागं राष्ट्रियचेतनायाः सामाजिकजागृतेश्च अग्रदूतं निरूप्य अतीव महत्वपूर्णानि विचाराणि अवोचताम्।
संगोष्ठ्याः आरम्भः डा.कारुलालजमडावर्येण सन्तरविदासमहाभागस्य सुप्रसिद्धेन भजनेन “प्रभो! त्वं चन्दनं वयं वारि” इत्यनेन गानेन अभवत्। समाप्तिश्च लोकगायकस्य श्रीनरसिंहडोडियारस्य सन्तरविदासमहाभागस्य पदगायनेन जाताऽभूत्।
संगोष्ठ्याः संचालनं संयोजकेन डॉ. कारुलालजमडाद्वारा कृतम्। अस्यां संगोष्ठ्यां श्रीअशोकदुबे भोपाल, श्रीसुन्दरलालमालवीय: उज्जयिनी, प्रियङ्काकविष्वर: नीमचसहितः अनेके विद्वांसः शोधार्थिनश्च सहभागीभूताः।