उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

चक्रवर्तीराजाभरतस्य जन्मस्थल्यां स्वयंसेवकै: स्वच्छताया: संकल्पः सेवाभियाने स्वीकृतं

वार्ताहर:- कुलदीपमैन्दोला।कण्वनगरीकोटद्वारं। यत्र दक्षिणे हिमालयस्य, उत्तरे च समुद्रस्य, अस्ति भारतवर्षम्, यत्र भारतीयाः वसन्ति। अद्य तस्मिन् पावने स्थले उपस्थिताः स्मः, यत्र हस्तिनापुरस्य राजा दुष्यन्तः शकुन्तलायाः च गन्धर्वविवाहानन्तरं भरतः जन्म लब्धवान्। कालान्तरे चक्रवर्तिन: राजान: भरतनाम्ना देशस्य नाम “भारतं” जातम्।

तत्र वेद-ऋचानां घोषैः गुंजायमानं विशुद्धं वातावरणम्, पवित्रस्य होमधूमेन व्याप्तः सघनवनः, विद्यार्थिनाम् अध्ययनक्रियाभिः संस्कृतयः सभ्यतायश्च संरक्षिताः। मालिनी-नद्याः उभयतटे लघ्वाश्रमाः दृश्यन्ते, यत्र ऋषिमुनयः परम्परागतरीत्या शिक्षाप्रदानं कुर्वन्ति। तत्रैव कण्वाश्रमगुरुकुले अद्यापि तादृशी शिक्षापद्धतिः दृश्यते।

कण्वाश्रमः उत्तराखण्डराज्यस्य गढ़वालजनपदे कोटद्वारक्षेत्रे शिवालिकपर्वतश्रेणौ स्थितः अस्ति। सः हेमकूट-मणिकूट-पर्वतयोः मध्ये स्थितः, पुरातात्त्विक-ऐतिहासिकदृष्ट्या महत्त्वपूर्णः पर्यटनस्थलः अस्ति। मालिनी-नद्याः तीरे घनवनानां मध्ये स्थितः अयं आश्रमः पवित्रः एवं प्राचीनः इति मन्यते। अत्र ऋषिः कण्वः विश्वामित्रश्च ध्यानमभवताम्। कण्वाश्रमे वेदानां चत्वारः, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, आयुर्वेदः, कर्मकाण्डश्च पाठ्यन्ते स्म।

वसन्तपञ्चमीपर्वणि, त्रिदिवसीयकण्वाश्रम-महोत्सवस्य समापनानन्तरं, अनेकैः राष्ट्रियसेवायोजनास्वयंसेवकैः, पर्यावरण-मित्रैः, समाजसेविभिश्च सह वृहद-स्वच्छता-अभियानं सञ्चालितम्। तस्मिन पवित्रक्षेत्रस्य स्वच्छतायै सर्वैः अमूल्यं योगदानं प्रदत्तम्।

महोत्सवसमितेः पदाधिकारीगणाः, एम.के.वी.एन. कलालघाटी कोटद्वारं, राजकीय-इंटर-कॉलेज-झंडीचौड़, कन्याविद्यालय- कलालघाटी कोटद्वारम् इत्येताभ्यः विद्यालयेभ्यः स्वयंसेवकाः, ग्रीन-आर्मी-देवभूमिः उत्तराखण्डः इत्यस्य सदस्याः च अस्मिन् अभियाने भागं गृहीतवन्तः।

स्मिन कार्यक्रमे, महोत्सवसमितेः अध्यक्षः कण्वाश्रमस्य ऐतिहासिक-पौराणिक-महत्त्वं स्वयंसेवकेभ्यः अवगतं कृतवान्। सः सर्वेभ्यः आवाहनं कृतवान्—स्वच्छताया: संकल्पः, सेवा अभियानम् इति स्वीकरणीयम् ।

इत्येतं ध्येयं पूरयित्वा, महोत्सवस्य समापनानन्तरं, पतितपावनी मालिनी-नद्याः तटे स्थितः एषः कण्वाश्रमः राष्ट्रीयधरोहरः अस्ति अतः सर्वे आगन्तुकाः स्वच्छतायाः विशेषं ध्यानं कुर्वन्तु। प्लास्टिक-कच्रं च न क्षिपन्तु। अस्माकं गौरवविषयं मलिनीकृत्य शर्मयन्तु मा।


अस्मिन् स्वच्छताभियाने राष्ट्रीयसेवायोजनाकार्यक्रमाधिकारी नीतेशवर्य: (एम.के.वी.एन. कलालघाटी कोटद्वारं), श्रीमती ऋतुसिंह:, श्रीमती भावना पाण्डेय: (राजकीय-कन्या-इंटर- कॉलेज-कलालघाटी-कोटद्वारं), ग्रीन-आर्मी-देवभूमेः अध्यक्षः शिवम: नेगी, महोत्सवसमितेः अध्यक्षः राजगौरवनौटियाल:, सहसंयोजकौ वीरेंद्रभारद्वाज:, जगमोहनरावत:, सदस्याः मोहितकंडवाल:, आशुनेगी, मनीषभट्ट:, जगतरामडबराल:, राजेंद्रप्रसाद:, शशिकांतजोशी, प्रमोदजोशी, विजयप्रकाश: ध्यानी, रजनीशबेबनी, आशीषरौतेला, गौरवरावत: इत्येते पर्यावरणमित्राः स्वयंसेवकाः च उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button