पंजाबसंस्कृत भारती

पञ्जाबीविश्विद्यालये संस्कृत-सम्भाषण-कार्यशाला निष्पन्ना

संस्कृतं विना भारतं परमवैभवं प्रातुं न शक्नोति-- "नरेन्द्रकुमार:"

संस्कृतभारतीपञ्जाबः पञ्जाबीविश्वविद्यालयस्य संस्कृतपालिविभागश्च इत्यनयोः संयुक्ततत्त्वावधाने आयोजितायाः दश-दिवसीय-संस्कृत-संभाषण-कार्यशालायाः समारोपकार्यक्रमः निष्पन्न:। अस्य कार्यक्रमस्य शुभारम्भः दीपज्वालनेन वैदिक-मन्त्रोच्चारणेन च अभवत्। समारोपकार्यक्रमे अध्यक्षरूपेण विश्वविद्यालयस्य डीन-अकादमिक प्रो. नरेन्द्रकौरमुल्तानी समायुक्ता । डीन-महोदया स्वकीये उद्बोधने उक्तवती यत् संस्कृतभाषा विश्वस्य सर्वप्राचीनतमा भाषा वर्तते। प्राचीनं भारतीयं ज्ञान-विज्ञानम् अवगन्तुं संस्कृतस्य ज्ञानं परमावश्यकम् अस्ति।

अस्मिन् कार्यक्रमे मुख्यवक्तृरूपेण श्रीमान् नरेन्द्रकुमारः उत्तरक्षेत्रसङ्घटनमन्त्री, संस्कृतभारती, सम्प्राप्त:। नरेन्द्र-महोदयेन उक्तं यत् संस्कृतभाषा देवभाषा वर्तते। अस्माकं सौभाग्यम् अस्ति यद् वयं सर्वे संस्कृतसेवायां संलग्नाः स्म:। संस्कृतं विना भारतं परमवैभवं प्रातुं न शक्नोति। संस्कृतविभागस्य अध्यक्षः डॉ. वीरेन्द्रकुमारः सर्वेषाम् अतिथीनां स्वागतं कृतवान्। हिन्दीविभागाध्यक्षा डॉ. नीतूकौशलः कार्यक्रमान्तिमे धन्यवादभाषणे सर्वेभ्य: धन्यवादं ज्ञापितवती। संस्कृतपालिविभाचार्य: डॉ. राहुलः कार्यशालायाः वृत्तं प्रस्तुतवान्।

मञ्चसंचालनं डॉ. ओमनेन कृतम्। अजयः आर्यः शान्तिमन्त्रं कारितवान्। अस्मिन् अवसरे डाॅ. पुष्पेन्द्रजोशी, डाॅ. रजनी, डाॅ. राधा, डाॅ. आशीषेन सह विभिन्नेभ्य: विभागेभ्य: संस्कृतकार्यकर्तारः, सामाजिकाः, छात्राश्च उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button