उत्तराखण्डहरिद्वार

छात्राः संस्कृतविशेषज्ञरूपेण सिद्धा: करणीयाः, समाजस्य च उपयोगाय तेषां प्रवर्तनं करणीयम्- “डा.वाजश्रवा आर्य: (सचिव:) उ.सं.अकादमीहरिद्वारं”

🔵मानकानुसारं संस्कृतलेखनकार्यं करणीयम् -"डा.ओमशर्मा" ।। 🔵 अनुवादाय स्पष्टाः सरलाः संक्षिप्ताः च शब्दाः चेतव्याः- "डा.प्रकाशपन्त:"

भारतीयभाषासमितेः, शिक्षामन्त्रालयस्य (भारतसर्वकारस्य) च उत्तराखण्डसंस्कृतविश्वविद्यालयस्य च संयुक्ततत्त्वावधाने लेखकानाम् अनुवादक्षमताविकासाय पञ्चदिवसीया कार्यशाला विश्वविद्यालयस्य परिसरे प्रचलति, यस्मिन् उत्तराखण्डराज्यस्य विविधाः विद्वांसः अनुवादसम्बद्धानां कौशलानां शिक्षणं प्राप्नुवन्ति।

चतुर्थदिवसे उत्तराखण्डसंस्कृत-अकादम्याः हरिद्वारस्य सचिवः डॉ. वाजश्रवा आर्यमहोदयः अनुवादक्षमताविकासविषये वक्तव्यं प्रदत्तवान्। सः अवदत् यत् पाठ्यक्रमस्य मूलभावनानुसारं अनुवादकार्यं कर्तुं भावः शैली च ज्ञातव्यौ। सः सांसद: दयानिधेः मारणस्य दृष्टान्तं प्रदर्श्य अवदत् यत् संस्कृताय कार्याणि कृतानि सन्ति, किन्तु यदि तेषां उपयोगाय योग्याः व्यक्तयः न सन्ति, तर्हि संस्कृताय व्ययः दुरुपयोगः भविष्यति। अतः स्वस्वसंस्थासु पठन्तः छात्राः संस्कृतविशेषज्ञरूपेण सिद्धा: करणीयाः, समाजस्य च उपयोगाय तेषां प्रवर्तनं करणीयम्।

डॉ. ओमशर्मवर्य: निरन्तरं प्रशिक्षणं दत्त्वा अवदत् यत् मानकानुसारं संस्कृतलेखनकार्यं करणीयम्। व्याकरणज्ञानेन सह भावः शैली च, लेखकस्य तात्पर्यं च अपि ज्ञातव्यम्।
प्रथमदिनांकत: डा.शर्मवर्य: निरन्तरम् अनुवादसम्बन्धीकौशलानां प्रशिक्षणं ददाति । ते व्याकरणबिन्दुभिस्सह भाषातत्त्वानां चर्चा बहुविनीतकौशलेन सम्पादयन्ति।

डॉ. प्रकाशपन्तमहोदयः अवदत् यत् अनुवादलेखने किञ्चित् अपि भावं न त्यजेत्, न च किञ्चित् स्वयम् योजयेत्। पाठ्यक्रमस्य अनुवादाय स्पष्टाः सरलाः संक्षिप्ताः च शब्दाः चेतव्याः। भाषायाः समस्ततत्त्वानां ज्ञानं आवश्यकम्, तदा एव वयं कस्या: अपि भाषायाः सम्यक् अनुवादं कर्तुं शक्नुमः।


कार्यशालायाः संयोजिका डॉ. मीनाक्षी रावत:, डॉ. सुमनप्रसाद: भट्ट:, डॉ. नवीनजशोला, डॉ. प्रकाशचन्द्रजागी, सुश्री मधुजोशी, सुश्री मीरा बारिक्, कुमारी उर्मिला, डॉ. नीरजनौटियाल:, डॉ. सोमेशबहुगुणा, डॉ. अमन्दमिश्र:, डॉ. कमलेशशक्टा, डॉ. बिन्दुमती द्विवेदी, डॉ. प्रतिभा शुक्ला, डॉ. राघवझा, डा.सोहनलालगौड़: नीरजनौटियाल:, कुलदीपगौड़:, कुमारी उर्मिला, विपिनः उनियालः, आनन्दमिश्र:, श्री कमलेशशक्टा, परमेशबिजलवाण:, डॉ. कमलेश:, आशुतोषभट्ट: इत्यादयः विद्वांसः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button