लेखन-अनुवादक्षमताविकासाय विदुषां कृते पञ्चदिवसीया- कार्यशालाया: शुभारम्भ:
भाषानुवादे भावबोधानुसारेण कौशलं वर्धनीयं - "डा. के. गिरिधरराववर्य:" । लेखनं श्रद्धापूर्वकं सम्पादनीयम्, न तु विवशतया-- " डा. निरञ्जनमिश्र:" । कार्यशालासमन्वयकेन डा.प्रकाशपन्तेन स्वरचितपद्यै: कृतम् अतिथीनां सम्मानं

भारतीयभाषासमितिशिक्षामन्त्रालयस्य (भारतसर्वकारस्य) तथा च उत्तराखण्डसंस्कृतविश्वविद्यालयस्य संयुक्ततत्त्वावधाने लेखन-अनुवादक्षमताविकासाय पञ्चदिवसीया कार्यशाला विश्वविद्यालयस्य सभागारे आयोजिता अभवत्।
कार्यशालायाः प्रयोजनं भारतीयभाषासु अनुवादक्षमतायाः संवर्धनं तथा संस्कृतभाषानुवादे योगदानं प्रबलेन कर्तुमिति
डा. के. गिरिधरराववर्य: स्वविचारान् प्रस्तुतवान् । तेन कार्यशालायाम् उक्तं यत् भाषानुवादे भावबोधानुसारेण कौशलं वर्धनीयं “अस्मिता-योजना” इत्यनुरूपं भारतीयभाषाणां संवर्धनाय योजनागतः प्रयासः प्रवर्तमानः अस्ति अस्मिन् प्रयासे—
1. द्वाविंशतिभाषासु स्नातकस्तरे अनुवादकार्यं प्रचलति।
2. अनुवादलेखनकार्ये त्रुटिनिवारणार्थं अनुवादक्षमताविकासकार्यशाला आयोज्यते।
3. पाठ्यक्रमानां अनुवादाय विशेषकार्यशाला सम्पद्यते।
4. विविधपुस्तकेषु अनुवादकार्यं समर्थतया सम्पादनीयमिति।
5. आङ्ग्लभाषायाः ग्रन्थानामपि संस्कृतभाषासु अनुवादः आवश्यक: ।
6. संस्कृतछात्राः, संस्कृताध्यापकाः च भारतीयभाषासु अनुवादे योगदानं दद्यु:
7. त्रिलक्षाधिकपुस्तकेषु संस्कृतानुवादकार्यं अग्रे प्रवर्तमानम् अस्ति ।
कार्यशालायां दशसंस्कृतविद्वांसः डा. प्रकाशपन्तमहाभागस्य नेतृत्त्वे संलग्नाः सन्ति। श्रीपन्तवर्येण प्रस्तावितसम्बोधने उक्तं यत् कार्यशालायां उत्तराखण्डराज्यस्य विविधभाषाविशेषज्ञैः सह संस्कृतविद्वांसः उपस्थिताः सन्ति, ये लेखकेषु अनुवादक्षमतायाः विकासं करिष्यन्ति। सः आत्मना विरचितैः संस्कृतश्लोकैः अतिथीनां सम्मानं कृतवान्।
कार्यक्रमस्य अध्यक्षेण डा. निरंजनमिश्रवर्येण
उक्तं यत्— “पुस्तकवृद्धिरेव लक्ष्यं न, अपितु अन्यभाषासु संस्कृतमाध्यमेन विचाराणां उपलब्धिः मुख्यं लक्ष्यं वर्तते।”
1. स्थानिक-क्षेत्रीयभाषायां विद्यमानस्य भावस्य अनुसारं संस्कृतानुवादः स्पष्टः भवेत्।
2. संस्कृतभाषया सह अन्यभाषाणां भावबोधोऽपि आवश्यकः।
3. लेखकानां समस्याः उचितरूपेण प्रकाशयितव्याः।
4. तकनीकीशब्दानां, विज्ञानशब्दानां च यथोचितं ज्ञानं अनिवार्यम्।
5. यः लेखकः यया भाषया लिखितवान्, तस्य मौलिकभावस्य संरक्षणं संस्कृतानुवादे अपेक्षितम्।
6. चतुस्त्रिंशत् (३४) प्रकाराणां भावानुसारं अनुवादः सम्पादनीयः।
7. कोऽपि लेखकः यद्भावं लिखेत्, तस्य भावहानिः न भवेत्।
8. लेखनं श्रद्धापूर्वकं सम्पादनीयम्, न तु विवशतया।
9. उत्तीर्णयोग्याभ्यर्थिनः अस्थायिरूपेण अपि अनुवादकार्ये सवृत्तिपरकं योगदानं दातुं समर्थाः भवन्तीति।
कार्यक्रमस्य अन्ते डा. मीनाक्षीरावतमहाभागया धन्यवादज्ञापनं कृतम्, डा. सुमनप्रसादभट्टमहोदयेन कार्यक्रमस्य संचालनं सम्पादितम्। कार्यशालायां विशेषतः विद्वत्सु
डा. प्रकाशचन्द्रजांगी, श्रीहेमन्तजोशी, सुश्रीमधुजोशी, सुश्रीमीराबारिक, कु. उर्मिला, डा. नीरजनौटियाल, डा. सोमेशबहुगुणा, डा. अमन्दमिश्र, डा. कमलेशशक्ता, डा. बिन्दुमतीद्विवेदी, डा. प्रतिभाशुक्ला, डा. नवीनजशोला, डा. राघवझा , डा.कुलदीपगौड: इत्यादयः उपस्थिता: आसन्। अनुवादकार्यशालायाः संकल्पः संस्कृतस्य माध्यमेन भारतीयभाषाणां संवर्धने महत्त्वपूर्णं योगदानं करिष्यतीति।