नारी भारतीयपरम्परायां समाजस्य वैचारिकप्रेरणायाः स्रोतः – “डा. कविताभट्टशैलपुत्री”
🌐एकदिवसीयगढ़वालमण्डलस्य कार्यकर्तृ-अभ्यासवर्गस्य जातं सफलम् आयोजनम्। 🔵टी.एच.डी.सी. अभियान्त्रिकी-प्रौद्योगिकी-संस्थाने टिहरीस्थे वैचारिक-मन्थनम् सम्पन्नम्

देवभूमिविचारमञ्चेन (प्रज्ञाप्रवाहस्य प्रान्तीयशाखया) टी.एच.डी.सी. अभियान्त्रिकी-प्रौद्योगिकी संस्थाने टिहरीस्थाने एकदिवसीयगढ़वालमण्डल-कार्यकर्तृ-अभ्यासवर्गः सफलतया आयोजितः। अस्य कार्यक्रमस्य उद्देश्यः—कार्यकर्तॄणां भारतीय-बौद्धिक-परम्परा, सामाजिक-चिन्तनम्, समकालीन-सचेतनेषु च वैचारिक-संपन्नता-वर्धनम्—आसीत्।

कार्यक्रमस्य प्रस्तावना युवा-अयाम-समन्वयकः डॉ. आशीषबहुगुणा इत्यनेन प्रदत्ता। सः अवदत्—अयं अभ्यासवर्गः केवलं प्रशिक्षण-कार्यक्रमः न, अपितु दृष्टेः, विचारस्य, दायित्वबोधस्य च सुदृढीकरणाय समन्वितः प्रयासः इति। सः देवभूमेः बौद्धिक-परम्परां वर्तमान-सामाजिक-सन्दर्भैः सह संयोजयितुं आवश्यकतां निर्दिष्टवान्।
प्रथमसत्रे प्रान्त-समन्वयिका डॉ. अञ्जलि वर्मा इत्यनेन “भारतीयज्ञानपरम्परा” इति विषयः उपस्थापितः। सा वैदिकोपनिषद्-स्मृतिपरम्पराणां निरूपणेन उक्तवती यत् भारतीयज्ञानपरम्परा केवलं दर्शनम् न, अपितु जीवनस्य समग्र-प्रणाली अस्ति। नागार्जुन-पतञ्जलि-आदिशंकराचार्य-प्रभृतिषु मनीषिषु दृष्टान्तं दत्वा सा भारतीय-चिन्तनस्य वैज्ञानिक-आध्यात्मिक-ऐक्यं प्रकाशयामास।
तत: परं सह-समन्वयिका (महिला-आयामे) डॉ. कविता भट्टशैलपुत्री “हिन्दूचिन्तने नारी” इति विषयम् अविदधत्। सा वैदिककालात् आरभ्य आधुनिकयुगपर्यन्तं नारीणां शक्तिरूपेण, ज्ञानस्वरूपेण, सांस्कृतिक-नेतृत्वरूपेण च भूमिकां विवेचयामास। गार्गी-मैत्रेयी-लोपामुद्रा-प्रभृतयः दृष्टान्ताः दत्वा उक्तवती यत् भारतीयपरम्परायां नारी केवलं समाजस्य धुरी न, अपि तु वैचारिकप्रेरणायाः स्रोतः।
द्वितीयसत्रे क्षेत्र-शोध-समन्वयकः डॉ. रविशरणदीक्षित “भारतीयशोधदृष्टिः” इति विषयम् उपस्थापितवान्। सः उक्तवान्—भारतीय-अनुसन्धान-परम्परा केवलेषु प्रयोगेषु न सीमिता, अपि तु अनुभव-अन्तर्दृष्टि-सामाजिक-आवश्यकतानुसारं विकासिता। आधुनिकशोधप्रणालिं भारतीयदृष्ट्या संतुलयितुं आवश्यकतां च प्रकाशयामास।
सत्रस्य अपरः वक्ता डॉ. सतेन्द्रकुमारराजपूत आसीत्। सः “वित्तीय-संसाधनानि वित्तपोषण-संस्थाश्च” इति विषये व्यवहारिक-ज्ञानं प्रदत्तवान्। सः सरकारी-असरकारी-वित्तीय-संस्थापनां कार्यप्रणालीं, अनुदान-सुविधाः, शोध-सामाजिकपरियोजनानां संसाधन-संभवनां च विस्तरेण निरूपितवान्। अयं सत्रं प्रतिभागिभ्यः अत्यन्तोपयोगि अभवत्।
तृतीयसत्रे क्षेत्र-समन्वयकः प्रज्ञाप्रवाहस्य (उत्तरप्रदेश-उत्तराखण्ड) श्रीभगवतीप्रसादराघव “संसाधनमानचित्रणम्” इत्यस्य विशदं मार्गदर्शनं दत्तवान्। सः अवदत्—संगठनात्मक-कार्येषु क्षेत्रीय-संसाधनानां पहचानम्, तेषां सुयोजनापूर्वक-उपयोगः, स्थानीय-प्रतिभानां समुचित-समन्वयः च अत्यावश्यकः। प्रज्ञाप्रवाहस्य संसाधनमानचित्रणम्—मञ्चस्य वैचारिक-मानवीय-भौतिक-संस्थागत-क्षमतानां पहचान-वर्गीकरण-प्रभावी-उपयोगस्य सुव्यवस्थितप्रक्रिया इति। अस्य लक्ष्यं—उपलब्ध-संसाधनानां अधिकतम-सदुपयोगः, कार्यस्य योजनाबद्धता, प्रभाविता, परिणामकारिता च संवर्धयितुम्। अस्मिन् वर्गे पश्चिमउत्तरप्रदेश-समन्वयकः देवराजसिंह अपि उपस्थितः।
समापनसत्रे प्रान्ताध्यक्षः श्रीपृथ्वीधरकाला अध्यक्षीय-उद्बोधनं दत्तवान्। सः अवदत्—एतेषु अभ्यासवर्गेषु सहभागित्वेन कार्यकर्तॄणां वैचारिक-स्वच्छता, सामाजिकदायित्वबोधः, संगठनात्मक-अनुशासनं च वर्धते। प्राप्तज्ञानं समाजस्य अन्तिमपुरुषायापि प्रेषयितुम् आह्वानं कृतवान्।
अस्मिन् कार्यक्रमे गढ़वालमण्डलस्य विविधानि जनपदानि, नगराणि, विश्वविद्यालयानां च कार्यकर्तारः उत्साहपूर्वकं सम्मिलिताः। अभ्यासवर्गे सकारात्मकं बौद्धिक-वातावरणं निर्मितम्—यत्र विचार-विमर्शः, संवादः, सामूहिक-संकल्पः च स्पष्टतया दृष्टः।
अन्ते आयोजकैः सर्वेषां अतिथीनां, वक्तॄणां, प्रतिभागिनां च हार्दिकं धन्यवादः प्रदत्तः। कार्यक्रमे देवभूमिविचारमञ्चस्य प्रान्तकोषाध्यक्षः डॉ. कृष्णचन्द्रमिश्रः, क्षेत्र-शोध-समन्वयकः डॉ. रविशरणदीक्षित, प्रान्त-टोली-सदस्याः, प्रान्तस्य सर्वे अयाम-समन्वयकाः, गढ़वालमण्डलस्य जनपद-महानगर-विश्वविद्यालय-समन्वयकाः च उपस्थिताः। कार्यक्रमस्य संचालनं डॉ. मनीषउनियाल तथा डॉ. सुनैनारावत—गढ़वालमण्डल-समन्वयकौ—अकुर्वताम्।







