
प्रेषक:-कृष्णकान्तपंचारिया। संस्कृतस्य कर्तव्यनिष्ठानां विदुषां सरलसंस्कृतप्रशिक्षणकार्यक्रमस्य धौरेयाणां तथा केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरस्य पूर्वनिदेशकानां प्रो.वाई.एस.रमेशवर्याणां सेवानिवृत्तिसम्माने आयोजितं सद्यस्कभूतं सौप्रस्थानिकं सम्मेलनम् अत्यन्तं सौहार्दपूर्णे शास्त्रीयगरिम्णि सांस्कृतिकवातावरणे सफलतापूर्वकं सम्पन्नमभूत्।

कार्यक्रमस्य शुभारम्भः शोधच्छात्रया शालिन्या कृतेन वैदिकेन मङ्गलाचरणेन तथा शोधच्छात्रया राधया लौकिकेन मङ्गलाचरणेन चाभवत्।ततः परं प्रास्ताविकं स्वागतभाषणञ्च डा.मनीषजुगरानवर्येण (सहायकाचार्येण के.स.वि.) शिष्यैः प्रशिष्यैश्च सम्मानकार्यक्रमस्य विषयेऽबोधयत्। राष्ट्रपतिपुरस्कारसम्मानितः डा.टीगणेशपण्डितोऽवदत् यत् आचार्यवर्यस्य व्यक्तित्वं सर्वतोऽनुकरणीयमस्ति। केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलसचिवस्य प्रो.मुरलीकृष्णवर्यस्य विशेषानुग्रहपाथेयं सर्वेऽप्राप्नुवन्।रविन्द्रः,डा.दीपकभारद्वाजः(युवतरङ्गसंस्कृतनाट्यदलम्), डा.नितिनाचार्यः,डा..प्रमोदबुटेलियाजी, डा.अभिषेकशर्मा, डा.घनश्यामहरदेनिया, डा.महेशपारीकः, मधुसूदनः(संस्कृतभारती),शालिनीसिंहः, डा.यागेशपाण्डेय इति प्रभृतयोऽनेके शोधार्थिनः शिक्षकाः विद्यार्थिनश्च गुरुभिस्सह यापितनां प्रेरणास्पदानां क्षणानां स्मारकं स्वानुभवम् अवोचन् तथा गुरुवर्याणां जीवनं प्रेरणास्पदम् इति अब्रुवन्।

अध्यक्षीयभाषणे प्रो.वाई.एस.रमेशवर्याः तत्सौप्रस्थानिकं विशिष्टं कर्तुं सर्वेभ्यः धन्यवादं कथयमानाः संस्कृतमयं भारतं रचयितुं सङ्कल्पम् प्रकटिवन्तः तथा दिवानिशं संस्कृतकार्यं कर्तम् आह्वानकुर्वन्।
कार्यक्रमस्य समापने अङ्कितकुमारशर्मा सर्वैः वक्तृभिः सह कार्यक्रमे प्रत्यक्षाप्रत्यक्षसहयोगिभ्यः धन्यवादज्ञापनमकुर्वन् आयोजनसमितिसदस्यान् डा.नरेशसिंहं, डा.अभिनवं,कृष्णकान्तं प्रौद्योगिकीसहयोगिनश्च सर्वान् प्रति कार्तज्ञ्यभावम् प्राकाशयत्।
कार्यक्रमस्य सञ्चालनं सुरभारतीसमुपासको दीपकवात्स्यो राधाकान्तशाण्डिल्यश्चाकरोत्। कार्यक्रमस्य प्रसारणं “सुरभारतीसमुपासकाः” तथा “सरलसंस्कृतशिक्षणम्” इत्यत्र अभवत्।समाचारपत्रेषु प्रकाशनं नरेन्द्रदौतोलियामहोदयेन कृतम्। अस्मिन्नेव दिवसे धर्मपत्नीभिः सह प्रो.रमेशवर्यैः गोशालाया गोपालकानां सम्माननम् अकरोत्।
आसमाप्तं यावत् कार्यक्रमे विभिन्नराज्येभ्यः सम्पृक्ताः शिक्षकगणाः शोधार्थिनो विद्यार्थिनो विद्वज्जनाश्च सद्यस्कमाध्यमेन समुपस्थिता आसन्।