सप्तदशमहोत्सवस्य संस्कृतस्पर्धा हर्षोल्लासेन समपद्यत ।
🔵उत्तराखण्डसंस्कृताकादमीद्वारा आयोजितोभवत् राज्यस्तरीयसंस्कृतमहोत्सव:। 🔵अतिथिभि: समलंकृता: प्रतिभागिन: । 🔵संस्कृतं सर्वेषाम् सहायिका भाषा - "विधायक: आदेशचौहान:"

देवभूमौ उत्तराखण्डे गिरां देव्याः सरस्वत्याः कश्चन महानुत्सवः समपद्यत । उत्तराखण्डसंस्कृताकादम्याः पक्षतः सप्तदशराज्यस्तरीयसंस्कृतमहोत्सवस्यायोजनं कृतम् । यत्र विभिन्नविद्यालयेभ्यः समागतैश्छात्रैः स्वस्वप्रज्ञाप्रकर्षः प्रदर्शितः । यथा शास्त्रेषु पठ्यते प्रज्ञा नवोनवोन्मेषशालिनी प्रतिभा मतेति तदेव तत्र साक्षात्कृतम् ॥

प्रथमं कनिष्ठवर्गे विविधस्पर्धानां परिणामवृत्तम् इत्थं वर्तते ।
संस्कृतनाटकस्पर्धायां खटीमानगरस्थो डायनेस्टी-माडर्न-विद्यालयः (Dynasty Modern School) प्रथमं स्थानं लेभे । मुनिकीरेतिस्थः श्रीदर्शनसंस्कृतमहाविद्यालयो द्वितीयस्थानमलञ्चकार तथा च कोटपौडीप्रदेशीयो ब्रिगेडियर-विद्याधर-जुयाल- संस्कृतविद्यालयस्तृतीयस्थानं प्राप्तवान् ।

समूहगानप्रतियोगितायां खटीमानगरस्था डायनेस्टी-अकादमी (Dynasty Academy) प्रथमा अभवत् । आचार्यकुलं द्वितीयं तथा टनकपुरस्थो विजय-पब्लिक-विद्यालयस्तृतीयः (Vijay Public School) समतिष्ठत ।


वादविवादस्पर्धायां वाग्मिनां युद्धे आचार्यकुलस्य प्रथमः क्रमः आसीत् । देहरादूनस्थः श्रीमद्दयानन्दज्योतिर्मठगुरुकुलो द्वितीयः श्रीदर्शनसंस्कृतमहाविद्यालयश्च तृतीयः क्रमश: आसन् ।

श्लोकोच्चारणस्य माधुर्यपूर्णस्पर्धायां डायनेस्टी-माडर्न-अकादमी (Dynasty Modern Academy) प्रथमा हरिद्वारस्थो ब्रह्मचारिरामकृष्णसंस्कृतविद्यालयो द्वितीयः रुद्रप्रयागस्थः संस्कृतमहाविद्यालयश्च तृतीयः घोषितः ॥
अथ वरिष्ठवर्गस्य परिणामघोषणा प्रस्तूयते । संस्कृतनाटके कोटपौडीस्थेन जुयालसंस्कृतविद्यालयेन प्रथमं स्थानमधिगतम् । पटेलनगरस्थेन राजकीय-इण्टर-महाविद्यालयेन (Govt. Inter College) द्वितीयं मुनिकीरेतिस्थेन श्रीदर्शनसंस्कृतविद्यालयेन च तृतीयं स्थानं स्वीकृतम् ।
समूहगाने खटीमास्थया डायनेस्टी-अकादम्या (Dynasty Academy) प्रथमः केवीएम-विद्यालयेन (KVM) द्वितीयं दशौलीस्थेन विद्यालयमन्दिरेण च तृतीयं स्थानं प्राप्तम् ।
समूहनृत्ये रुडकीस्था आर्यकन्यापाठशाला प्रथमा खटीमास्था डायनेस्टी-अकादमी (Dynasty Academy) द्वितीया गोपेश्वरस्था राजकीयबालिका-इण्टर-पाठशाला (Govt. Girls Inter College) च तृतीया अभवत् ।
वादविवादे पतलोटक्षेत्रीयः पीएम-श्री-जीआईसी-विद्यालयः (PM Shri GIC) प्रथमः गुरुकुलविश्वविद्यालयो द्वितीयः मुनिकीरेतिस्थः श्रीदर्शनसंस्कृतमहाविद्यालयश्च तृतीयः आसीत् ।
आशुभाषणे ओखलकाण्डास्थो जीआईसी-विद्यालयः (GIC) प्रथमः पिथौरागढस्थो लक्ष्मणसिंहमहरपरिसरो द्वितीयः मुनिकीरेतिस्थः श्रीदर्शनसंस्कृतमहाविद्यालयश्च तृतीयस्थानभाक् सञ्जातः ।
श्लोकोच्चारणे डायनेस्टी-अकादम्या (Dynasty Academy) प्रथमं कोटद्वार-पीजी-महाविद्यालयेन (Kotdwar PG College) द्वितीयं मल्लीमानिलास्थेन संस्कृतविद्यालयेन च तृतीयं स्थानं लब्धम् ॥
कार्यक्रमस्यास्य समापने विजेतृभ्यः छात्रेभ्यः पुरस्कारवितरणं समभूत् । तदा चौहानादेशकुमारः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलसचिवः कुमारदिनेशः संस्कृतशिक्षानिदेशिका देवराडीकञ्चना तथा च अकादम्याः सचिवः प्राध्यापकः पन्तमहनीयो मनोजकिशोरश्चेति महानुभावाः विजेतृप्रतिभागिनः सम्मानितवन्तः ।
अवसरेऽस्मिन् विशिष्टसंस्कृतसेवार्थं तथा द्वादशवर्षेभ्यः अकादमीं प्रति अनवरतं साहाय्यं प्रदानाय च श्रीगौडरोशनलालमहोदयः संस्कृतसमाराधकसम्मानेन राज्यस्तरे अकादमीद्वारा अतिथिभिश्च समलङ्कृतः ।
अस्य कार्यक्रमस्य अध्यक्षता उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिभिः प्राध्यापकशास्त्रिदिनेशचन्द्रमहोदयैः व्यधायि । अकादम्याः वित्तकोषाधिकारिणा डबरालसतेन्द्रप्रसादेन सर्वेषाम् अतिथीनामाभारो ज्ञापितः । समग्रस्य कार्यक्रमस्य कुशलं सञ्चालनं राज्यसंयोजकेन डोक्टर्-गुरुराणीहरिश्चन्द्रेण कृतम् ॥







