उत्तराखण्डहरिद्वार

हरिद्वारे सप्तदश राज्यस्तरीयसंस्कृतमहोत्सवस्य भव्यः समारम्भः

महोत्सवे राज्यस्य त्रयोदशजनपदेभ्यः समागताः षट्पञ्चाशदधिकैकशतं गणाः भागं गृह्णन्ति। 🔵 सर्वेषां धर्माणां मूलभूताः प्राचीनाश्च ग्रन्थाः "सचिवदीपकगैरोला" 🔵 भारतीयसंस्कृतिं संस्कृतं च परस्परं योजयितुं संस्कृतस्पर्धा प्रेरणीया- "मदनकौशिक:" 🔵 वेदाः संस्कृतभाषायामेव निबद्धाः - "महापौरा जैसलकिरण्"

अद्य देवभूम्याः पुण्यक्षेत्रे हरिद्वारे भूपतवालाक्षेत्रस्थे महाजनभवने उत्तराखण्डसंस्कृताकादमीद्वारा आयोजितस्य सप्तदशस्य संस्कृतमहोत्सवस्य राज्यस्तरीयस्पर्धानां च मङ्गलोद्घाटनं सम्पन्नम्। अतिथिवर्यैः दीपप्रज्वालनेन कार्यक्रमस्य शुभारम्भः कृतः। ततः परं जगद्गुरुश्रीचन्दसंस्कृतविद्यालयस्य वैदिकबटुभिः श्रुतिसुखदैः वेदमन्त्रैः वैदिकं मङ्गलाचरणं प्रस्तुतं सरस्वत्याश्च वन्दना कृता। मञ्चस्थैः गणमान्यैः वाग्देव्याः चित्रपुरतः पुष्पाञ्जलिश्च समर्पितः।

अकादम्याः सचिवः आचार्यः पन्तमनोजकिशोरः मञ्चस्थितानाम् अतिथीनां स्वागतं व्याहरन् प्रस्ताविकोद्बोधने न्यगदत् यत् संस्कृताकादमी वर्षपर्यन्तं संस्कृतभाषायाः प्रोत्साहनार्थं संरक्षणार्थं च निरन्तरं कार्यं करोति। सः अवोचत् संस्कृतभाषायाः परिरक्षणम् अस्माकं सर्वेषां सामूहिकं दायित्वं वर्तते यतो हि संस्कृतं न केवलं भाषा अपि तु अस्माकं संस्कृतिः सभ्यता भारतवर्षस्य च परिचायिका। भारतीयसंस्कृतेः तस्याः प्राचीनवैभवस्य च पुनस्संस्थापनाय संस्कृतभाषायाः संरक्षणम् अत्यावश्यकम्। एकतः यत्र स्पर्धानाम् आयोजनं क्रियते तत्रैवापरतः शोधस्य नवाचारस्य च महती आवश्यकता विद्यते। अस्मिन् महोत्सवे राज्यस्य त्रयोदशजनपदेभ्यः समागताः षट्पञ्चाशदधिकैकशतं गणाः भागं गृह्णन्ति इति।

कार्यक्रमस्याध्यक्षतां वहन् संस्कृतशिक्षासचिवः गैरोलदीपककुमारः अब्रवीत् यत् संस्कृतं सर्वासाम् भारतीयभाषाणां जननी अस्ति तथा च अस्यां सकलं विज्ञानं निहितमस्ति। वर्तमानकाले तदुपरि अनुसन्धानम् अपेक्षितम्। अस्माकं प्राचीनाः ऋषिमहर्षयः दूरद्रष्टारः आसन् अत एव तैः वैदिकमार्गः अतीव सहजरूपेण सरलरूपेण च प्रतिपादितः। वेदाः एव सर्वेषां धर्माणां मूलभूताः प्राचीनाश्च ग्रन्थाः सन्ति।

कार्यक्रमस्य मुख्य अतिथिः हरिद्वारविधानसभायाः विधायकः कौशिकमदनः अकथयत् यत् कुम्भनगर्यां हरिद्वारे अयं सप्तदशः संस्कृतमहोत्सवः भारतीयसंस्कृतिं संस्कृतं च परस्परं योजयितुं महत्त्वपूर्णं कार्यं करोति।

हरिद्वारनगरनिगमस्य महापौरा जैसलकिरण् उक्तवती यत् वेदाः संस्कृतभाषायामेव निबद्धाः सन्ति इत्यनेनैव संस्कृतस्य प्राचीनतमत्वं सिद्ध्यति। वयं संस्कृतभाषायाः समुन्नयनाय प्रोत्साहनय च सततं प्रयतामहे।

कार्यक्रमे मञ्चसञ्चालनं कुर्वन् राज्यस्पर्धानां संयोजकः डाॅक्टरगुरुरानिहरीशचन्द्रः सूचितवान् यत् षड्विधाः स्पर्धाः कनिष्ठवर्गे षष्ठतः दशमीकक्षापर्यन्तं वरिष्ठवर्गे च एकादशतः स्नातकोत्तरकक्षापर्यन्तं छात्रेभ्यः आयोज्यन्ते। एताभिः स्पर्धाभिः देशस्य प्रदेशस्य च सर्वेषां संस्कृतप्रेमिणाम् एकत्रीकरणं भवति।

अकादम्याः प्रकाशनखधिकारी राज्यसहसंयोजकश्च रतूडीकिशोरीलालः अवदत् यत् एतासु स्पर्धासु प्रदेशस्य सर्वेभ्यो जनपदेभ्यः त्रयोदश जनपदसंयोजकाः सहसंयोजकाः निर्णायकाः समन्वयकाः प्रतिभागिनः छात्राश्चेति द्वादशशताधिकाः जनाः सम्मिलिताः अभवन्।

अस्मिन्नवसरे डाॅ.सुवेदिपद्मप्रसादः डाॅ.झाभोलाः टौकहर्षी डाॅ.पंवाराजितः डाॅ.शर्ममुकेशः डाॅ.परगाञीदामोदरः डाॅ.खण्डेलवालरामरतनः, डाॅ.पन्तप्रकाशः डाॅ.आर्यवाजश्रवा सेमल्टीयशोदाप्रसादः डाॅ.कैरवानजनार्दनः डाॅ.पन्तकुलदीपः शर्ममनोजः डाॅक्टरबहुखण्डिराधेश्यामः रावतलीला कठैतरमा मनीषा कविता आकाङ्क्षा बेबी विवेकः मोहितः मैठाणीसुशीलः भट्टोम्प्रकाशः सुनीलः रावताजयः इत्यादयः बहवः विद्वांसः गणमान्याश्च उपस्थिता: आसन्॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button