उत्तरप्रदेशसंस्कृतसंस्थानस्य स्थापना-दिवसोपलक्ष्ये संस्कृतकविव्याख्यानगोष्ठी भव्यतया समपद्यत।

वार्ताप्रेषकः-डॉ. मूलचन्द्रशुक्लः। उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊ इत्यत्र स्थापना-दिवसोपलक्ष्ये “संस्कृतभाषाया: विकासे संस्कृतसंस्थानस्य अवदानम्” इति विषयमवलम्ब्य संस्कृत-व्याख्यानगोष्ठी तथा च संस्कृतकविगोष्ठी भव्यकार्यक्रमरूपेण समायोजितौ। कार्यक्रमस्य शुभारम्भः छात्रैः वैदिक-लौकिक-मङ्गलाचरणेन विहितः। सुचारु-सञ्चालनं कुर्वता समेषामतिथीनामभिनन्दनपुरस्सरं संस्कृतसंस्थानस्य प्रशासनिकाधिकारिणा डाॅ. जगदानन्दझामहोदयेन व्याख्यानगोष्ठ्याः प्रास्ताविकी पुरस्कृता।

अस्मिन्नवसरे मुख्यवक्तारूपेण इलाहाबादविश्वविद्यालयप्रयागराजस्य संस्कृतविभागात् समागत: आचार्यः प्रो. प्रयागनारायणमिश्रः स्ववक्तव्ये उक्तवान् यत्—उत्तरप्रदेशसंस्कृतसंस्थानम्, स्व-स्थापनाकालादारभ्य संस्कृतभाषां जनसामान्यभाषां यावत् आनेतुमहर्निशं प्रयासरतं वरीवर्ति। तत्र नाट्यप्रदर्शनैः, कविसम्मेलनैः,श्लोकपाठैः, संस्कृतप्रतिभान्वेषणप्रतियोगिताभिश्च विद्यार्थिषु संस्कृतभाषां प्रत्यभिरुचिं संवर्धयत् सन्तिष्ठति। अग्रे मुख्यवक्तृवर्यः वक्ति यत् समुल्लिखिताः प्रयासाः संस्कृतभाषायाः प्रचार-प्रसार- सामाजिकपुनर्जीवनाय अत्यन्तं महत्त्वपूर्णाः सन्ति।

सारस्वतवक्तारूपेण काशीहिन्दूविश्वविद्यालयस्य कलासङ्कायसंस्कृतविभागस्य आचार्येण प्रो. शरदिन्दुकुमारत्रिपाठिना प्रोक्तं यत्—उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतभाषायाः संरक्षणे, संवर्धने, विकासे च बहु-आयामी दूरदर्शि च अवदानं प्रदत्तम्। तत्र शिक्षा- शोध-सम्मान-प्रकाशन- जनजागरण-एतेषु सर्वविधक्षेत्रेषु संस्थानस्य सक्रियभूमिका संस्कृतभाषाम् आधुनिकयुगेऽपि प्रासङ्गिकीं विधातुञ्च समुद्यतं दरीदृश्यते। निश्चयेन संस्थानमिदं संस्कृतभाषायाः गौरवशालिन्याः परम्पराया: उज्ज्वलभविष्यस्य च मध्ये सुदृढं सेतुस्वरूपेण कार्यं कुर्वत् वर्तते।
विशिष्टवक्तारूपेण बागपतम् इत्यतः अमरवाणीकविपरिषद्परिकल्पकेन प्रख्यातेन संस्कृतमहाकविना डाॅ. अरविन्दकुमारतिवारिवर्येण निगदितं यत्—संस्कृतभाषा धर्म-विज्ञान-साहित्य-योगादिदर्शनानां भारतीयसंस्कृतेश्च मूलाधाररूपा भवन्ती समाजहितकारिणी वैविध्यमपि प्रदर्शयति। अग्रे तेनोक्तं यत् सा न केवलं प्राचीनभारतीयज्ञानपरम्परायाः संवाहिकारूपा सन्तिष्ठति, अपितु अद्यापि भारतीयबौद्धिकचेतनां, सांस्कृतिकास्मितां, नैतिकमूल्यानि च सज्जीवयितुम् आयासं विधीयते। डॉ. तिवारिणा प्रोक्तं यत् स्वातन्त्र्योत्तरभारते संस्कृतभाषायाः संरक्षण-संवर्धन-प्रचारप्रसारादिषु या: या: संस्थाः सङ्गठितान् सततप्रयासान् अकुर्वन्, तासु उत्तरप्रदेशसंस्कृतसंस्थानस्य स्थानं विशिष्टं गौरवपूर्णं चास्ति।
स्थापनादिवसावसरे संस्कृतकविगोष्ठी अपि समायोजिता आसीत्। तस्यां बागपतम् इत्यतः संस्कृतसुकविना डॉ. अरविन्दकुमारतिवारी वर्येण “संस्थानगीतिका”, डाॅ. विपिनकुमारद्विवेदी इत्यनेन “विलसति यत्र संस्कृतप्रतिभा गायति नवगानम्”, डाॅ. सौरभकुमारद्विवेदी इत्यनेन “प्रियं कामये” एवं “यात्रा” तथा च डाॅ. अभिषेकपाण्डेयमहोदयेन “मदीयं दिव्यसंस्थानं सदा भुवि राजते नित्यम्” इत्यादीनि सुमधुराणि नूतनानि च संस्कृतगीतानि प्रस्तुतानि,यानि श्रावं श्रावं श्रोतारो मन्त्रमुग्धाः अभूवन्। संस्कृतकविगोष्ठ्याः कुशलं सञ्चालनं धन्यवादज्ञापनञ्च डाॅ. अभिषेकपाण्डेयमहोदयेन समासादितम्।







