सप्तमान्ताराष्ट्रियस्य संस्कृत-चलचित्र-महोत्सवस्य उज्जयिन्यां भव्यम् आयोजनम्।

उज्जयिनी । उज्जयिन्यां पावननगर्याम् अद्य सप्तमः अन्तर्राष्ट्रियः संस्कृत-चलचित्र-महोत्सवः अत्यन्तं भव्यतया गरिमापूर्णेन च वातावरणेन सफलतया सम्पन्नः। अस्मिन् महोत्सवे विविधाः संस्कृत-चलचित्र-प्रस्तुतयः प्रदर्शिताः, याः न केवलं दर्शनीयाः अपि तु मनोहराः, मर्मस्पर्शिन्यः च आसन्। ताभिः प्रस्तुतिभिः सर्वेषां दर्शकानां हृदयानि भावविभोराणि अभवन्, सभागारः च आनन्दाश्रुभिः पूर्णः अभवत्।
महोत्सवस्य प्रमुखं वैशिष्ट्यं संस्कृत-भाषायाः सांस्कृतिक-महत्त्वस्य, जीवनमूल्यानां च चलचित्र-माध्यमेन सशक्तं प्रस्तुतीकरणम् आसीत्। संस्कृतभाषायाः माधुर्यं, शास्त्रीय-परम्परायाः गौरवं, भारतीय-संस्कृतेः गहन-तात्त्विकता च चलचित्रेषु सजीवतया प्रतिबिम्बिताः।
अस्य गरिमामयस्य कार्यक्रमस्य शोभां राज्यसभासांसदः माननीयः उमेशनाथमहाराजः वर्धितवान्। तदनन्तरं माननीया सभापतिः कलावती यादव:, सुप्रसिद्धा अभिनेत्री ऐश्वर्या शर्मा, तथा संस्कृतभारतीसंस्थायाः अखिलभारतीय-पदाधिकारी श्रीमान् श्रीशदेवपुजारीवर्य: एवं श्रीमान् सचिनकठाले इत्यादयः विशिष्टाः अतिथयः उपस्थिताः आसन्। तेषां सान्निध्येन कार्यक्रमः विशेषतया गौरवान्वितः अभवत्।
एतस्मिन् अवसरॆ संस्कृतभारत्याः अनेके कार्यकर्तारः, उज्जयिन्याः नगरस्य गणमान्याः नागरिकाश्च स्वपावनया उपस्थित्या महोत्सवस्य महत्त्वं द्विगुणितवन्तः। सर्वे वक्तारः स्वस्व-उद्बोधनैः संस्कृत-भाषायाः संरक्षणे, संवर्धने च चलचित्रस्य भूमिकां विशेषतया निरूपितवन्तः।
समग्रतः अयं सप्तमः अन्तर्राष्ट्रीयः संस्कृत-चलचित्र-महोत्सवः संस्कृत-भाषायाः प्रचार-प्रसारे, नूतन-सन्तते: आकर्षणे, तथा भारतीय-सांस्कृतिक-चेतनायाः जागरणे महत्त्वपूर्णं सोपानं सिद्धः। उज्जयिन्यां आयोजितः अयं महोत्सवः सर्वेषां सहभागिनां हृदये चिरकालं यावत् स्मरणीयः ।







