उत्तराखण्डदेहरादूनसंस्कृत भारती

उत्तराखण्ड-विद्वत्सभाद्वारा आयोजिता गीता-प्रतियोगिता संस्कृत-सम्मेलनं च सम्पन्नम्।

सभाद्वारा संस्कृतभारती-देहरादूनस्य कार्यकर्तॄणाम् अभवत् विशिष्ट-सम्मानम् ।

देहरादूनम् | उत्तराखण्ड-विद्वत्सभादेहरादूनम्, श्रीमायादेवी-विश्वविद्यालयः सेलाकोई तथा संस्कृतभारती देहरादूनम् इत्येषां संयुक्त-तत्त्वावधानात् गीता-प्रतियोगिता संस्कृत-सम्मेलनं च अतीव गरिमामये, प्रेरणाप्रदायके च वातावरणे सफलतया सम्पन्नम्। कार्यक्रमस्य शुभारम्भः मंचासीन-अतिथीनां स्वागतपूर्वकं वैदिक-मंगलाचरणेन कृतः। अस्मिन् अवसरें संस्कृतस्य, श्रीमद्भगवद्गीतायाः च भारतीय-सांस्कृतिक-मूल्यानां संरक्षण-संवर्धनयोः विशेषः आग्रहः कृतः।

कार्यक्रमाध्यक्षः हर्षपति गोदियालः स्वीयोद्बोधने अवदत्— “गीता सुगीता कर्तव्या” इति लक्ष्यं मनसि निधाय एषा प्रतियोगिता आयोजिता, येन छात्राः गीता-सन्देशैः जीवनं संस्कर्तुं प्रेरिताः स्युः। गीता-प्रतियोगितायाः परिणामाः

संस्कृत-वर्गे—
प्रथमस्थानं— हरिओम् पाण्डेयः
द्वितीयस्थानं— कार्तिकदेवराणी
तृतीयस्थानं— अनमोलबलूनी
(चतुर्वेद-विद्यालयः, खुरबुड़ा, देहरादूनम्)

आधुनिक-वर्गे—
प्रथमस्थानं— अवीशा अरोड़ा (यूनिवर्सल-अकैडमी, देहरादूनम्)
द्वितीयस्थानं— रुचिजोशी (अटल-उत्कर्ष राजकीय-इंटर- -कॉलेज-छिद्दरवाला)
तृतीयस्थानं— दिव्यांशी सेमवाल: (श्रीगुरुरामरायस्कूल- बालावाला ।

अस्याः प्रतियोगितायाः कृते पञ्चाशत्-अधिकाः छात्राः आवेदनं कृतवन्तः, तेषु नवत्यधिक-प्रतिशतं छात्राः सक्रियतया सहभागित्वं कृतवन्तः।

संस्कृतभारती-देहरादून-कार्यकर्तॄणां सम्मानम्-

अस्मिन् अवसरे संस्कृतभारतीदेहरादूनस्य समर्पित-कार्यकर्तॄणां विशिष्ट-सम्मानम् कृतम् । आयोजकैः उक्तं यत्— एतत् सम्मानम् न केवलं व्यक्तीनां, अपि तु संस्कृत-मातुः गरिमाया: सम्मानम् अस्ति।

अतिथीनां प्रेरणादायकाः विचाराः मायादेवी-विश्वविद्यालयस्य कुलपतिः तथा विशिष्ट-अतिथिः डाॅ. आशीषसेमवालः शिक्षा-संस्कारयोः समन्वयस्य आवश्यकता विषये प्रकाशं कृतवान्। मुख्य-अतिथिः श्री मनोहरलालजुयालः संस्कृतं गीतां च जीवन-निर्माणस्य आधारः इति अवदत्। मुख्य-वक्ता डाॅ. रामभूषणविजल्वाणः गीता-संस्कृतयोः दार्शनिकं, नैतिकं, व्यावहारिकं च पक्षं ओजस्विना भाषणेन निरूपितवान्। प्रतिदिनं गीता-द्वय-श्लोक-पाठाय सर्वान् प्रेरितवान्।
सारस्वत-अतिथिः वेदप्रकाश शर्मा पत्रकारिताया माध्यमेन संस्कृत-प्रचारस्य महत्त्वं प्रतिपादितवान् तथा “संस्कृत-संवाद” पत्रिकायाः प्रतियां सर्वेभ्यः दत्तवान्।

आयोजनं व्यवस्थापनं च

कार्यक्रम-संयोजिका डाॅ. तृप्तिसेमवाल: जुयाल: आयोजनस्य रूपरेखां प्रस्तूय सर्वेषां अतिथीनां, प्रतिभागिनां, सहयोगिनां च आभारं प्रकटितवती। मंच-सञ्चालनं मुख्य-संयोजनं च आचार्य अजय डबरालः अकरोत्। निर्णायक-भूमिकां नागेन्द्रदत्तव्यासः, डाॅ. नवीनजसोला, डाॅ. प्रदीपसेमवालः च ऊढवन्तः।

सम्मानम् समापनं च
संस्कृत-सम्मेलनस्य अन्तर्गतं अनेकाः विद्वांसः, पदाधिकारिणः, कार्यकर्तारश्च प्रशस्ति-पत्रैः, अंगवस्त्रैः च सम्मानिताः अभवन्। सर्वे प्रतिभागिनः प्रमाणपत्रैः, अंगवस्त्रैः, “वदतु संस्कृतम्” पुस्तकेन तथा “संस्कृत-संवाद” द्वारा अलंकृताः।
कार्यक्रमस्य समापनं सामूहिक-चित्र-ग्रहणेन शान्ति-पाठेन च अभवत्। एतत् आयोजनम् गीता-संस्कृतयोः प्रति नवचिन्तनं जनयन् समाजे जागरूकतां, उत्साहं च प्रसारितवान्। आयोजकैः सर्वेभ्यः प्रतिदिनं गीता-द्वय-श्लोक-स्वाध्यायेन “गीता सुगीता कर्तव्या” इति संकल्पस्य पूर्तये आह्वानं कृतम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button