उत्तराखण्डनैनीताल

उत्कृष्टसेवायोगदानार्थम् उत्कृष्टशिक्षकसम्मानम् २०२५

शिक्षाविशारदाः समाजसेवकाश्च सम्मानेन विभूषिताः॥

रामनगरे शिक्षकदिवसस्य मङ्गलावसरे पुष्करसंस्थया कश्चन भव्यः सम्मानसमारोहोऽयोजितः। अस्मिन् गौरवान्विते प्रसङ्गे रामनगरक्षेत्रीयाः शिक्षाविशारदाः समाजसेवकाश्च स्वेषामुत्कृष्टसेवायोगदानार्थम् उत्कृष्टशिक्षकसम्मानः २०२५ इत्यनेन बिरुदेन विभूषिताः॥

सम्मानितेषु प्रमुखेषु पीएन्जी-राजकीय- स्नातकोत्तरमहाविद्यालयस्य प्राचार्याः प्राध्यापकवर्यः एमसीपाण्डेसिमहाशयाः तथा तत्रैव भूगोलविभागस्य सहायकप्राध्यापकाः एन् सि सि दलाधिकारिणश्च लेफ्टिनेण्ट् जोशीदेवकीनन्दनमहाभागाः रा.इ.का.रामनगरस्य निवृत्तप्राचार्याः संस्कृतप्रवक्तारश्च मिश्रसत्यप्रकाशविद्वांसः अपि च अल्फा जिम् (Alpha Gym) नाम्न्याः व्यायामशालायाः संस्थापकाः प्रशिक्षकाश्च सन्धुपरममहाशयाः आसन्॥

अयं च सम्मानः पुष्करसंस्थायाः निर्देशिकया गुप्तापूनममहाशयया प्रदत्तः। समग्रस्य कार्यक्रमस्य सञ्चालनदायित्वं ग्रोयिङ्ग् बड्स् विद्यालयस्य (Growing Buds School) प्राचार्या रावत-अनीतामहाशया ऊढवती॥

कार्यक्रमेऽस्मिन् सैफीजफरमहाभागाः मुख्यातिथित्वेन समुपस्थिताः आसन्। कार्यक्रमस्य साफल्ये ग्रोयिङ्ग् बड्स् विद्यालयस्य (Growing Buds School) अध्यापिकानां बिष्टसपना नीलम दीक्षा वैशाली रावतवन्दना इत्यादीनां विशिष्टं योगदानं बभूव॥

अस्मिन्नवसरे पुष्करसंस्थायाः पधाधिकारिषु सदस्येषु च चौहाननीतुमहाशया कोषाध्यक्षा जोशीविमलामहोदया रौनक: नीमाकश्मीरा सभासदः गोलापारसमहाभागः उपाध्यक्षा काण्डपालभावना चेति स्वकीयया गौरवान्वितोपस्थित्या आयोजनस्य साफल्ये साहाय्यं कृतवन्तः॥

समारोहे सर्वैः वक्तृभिः शिक्षायाः शिक्षकस्य विद्यार्थिनश्च महत्त्वं गुरुशिष्यपरम्परायाः गौरवं समाजे च गुरूणां भूमिका इत्येतेषु विषयेषु स्वविचाराः प्रकटीकृताः। वक्तृभिरुक्तं यद् आचार्या एव राष्ट्रस्य यथार्था निधिः सन्ति। यतो हि ते स्वज्ञानेन संस्कारैश्च आगामिन्याः प्रजायाः पथप्रदर्शनं कुर्वन्ति। अन्धकारान्निरुध्य प्रकाशं यच्छन्ति यतस्ते गुरवः स्मृताः॥

कार्यक्रमस्यान्ते पुष्करसंस्थापक्षतः सर्वेषाम् अतिथीनां भागग्राहिणां च धन्यवादो ज्ञापितः। सम्पूर्णः अयम् उत्सवः उत्साहेन श्रद्धया प्रेरणया च परिपूर्णे वातावरणे सम्पन्नोऽभवत्॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button