संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारविदेश

नेपालदेशे संस्कृतकविसम्मेलनं

संस्कृत समाचार । नेपालदेशे डा. मुकुन्दप्रसादलामिछानेवर्यस्य संयोजकत्वे संस्कृतकविसम्मेलनं संजायते । एतदर्थं
जयतु संस्कृतं इत्यनया संस्थया २०५५ तमविक्रमवर्षादेव प्रतिवर्षं संस्कृत-कविसम्मेलनं समायोज्यमानमस्तीति अत्रभवन्त: सविधे सहर्षं विनिवेदिता: सन्ति । अनया संस्थया अस्य वर्षस्य इदं सम्मेलनम् आषाढमासस्य पञ्चदशे दिवसे आयोजयितुं निर्णयो विहितः । अस्मिन् कविसम्मेलने सतिसम्भवे सामाजिक- सूचनासञ्जाल- प्रयोगविधिनापि कवयः सहभागितां जनयिष्यन्ति । एतदर्थमस्यैव आषाढमासस्य चतुर्दशदिवसपर्यन्तं स्वीयाः कविताः अधस्तन-वैद्युत- पत्राचार – सङ्केतेषु प्रेषयितुं सर्वे कवयः सादरं विनिवेद्यन्ते । कविसम्मेलने प्रस्तुताः संस्कृतकविताः जयतु संस्कृतं संस्थया प्रकाशयिष्यमाणे संस्कृतकवितासंग्रहे प्रकाशयिष्यन्ते । कविसम्मेलनसञ्चालनदिनाङ्क – समयादयश्च २०८० वक्ष्यमाणानुरूपाः सन्ति । वाल्मिकीविद्यापीठे २०८० आषाढ १५ दिनांके प्रात: एकादशवादने सम्मेलनमिदं प्रारप्स्यते। स्वकीयकविता: [email protected] [email protected] [email protected] इत्यस्मिन् अन्तर्जालसंकेतेन प्रेषयितुं शक्नुवन्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button