संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ीसंस्कृत भारती

कण्वाश्रमे संस्कृतभारत्या: दशदिवसीयशिबिरं

संस्कृतभाषिणां संख्या दशकोटिः च २७ देशेषु संस्कृतभारत्याः कार्यं प्रचलति---"गौरवशास्त्री"

कोटद्वार। परमार्थवैदिकगुरुकुलकण्वाश्रकोटद्वारे श्रीपरमपूज्यस्वामीचिदानन्दमुनिपरमार्थनिकेतनर्षिकेशस्य आश्रये संस्कृतभारतीकोटद्वारद्वारा दशदिवसीयं संस्कृतसम्भाषणशिबिरं प्रारब्धं। शिविरस्य उद्घाटनं संस्कृतभारतीप्रान्तमन्त्रिणा श्रीगौरवशास्त्रिणा, रा.इ.का.कण्वघाटीत: प्रधानाचार्येण रमाकान्तकुकरेतीमहोदयेन दीपप्रज्वलनेन कृतम्। प्रान्तमन्त्री गौरवशास्त्रीमहोदयः अवदत् यत् संस्कृतभारती देशे विदेशे च निःशुल्कसेवान्तर्गतं दशदिवसीयशिबिरद्वारा संस्कृतसम्भाषणस्य कार्यं साधारणजनेभ्य: सञ्चालयति ।

अद्य संस्कृतभारत्याः कारणात् दशकोटिजनाः संस्कृतेन सम्भाषणं कुर्वन्ति। प्रधानाचार्यः श्रीरमाकान्तकुकरेती उक्तवान् यत् संस्कृतभाषायां सामान्यजनेन सह वार्तालापस्य कार्यं संस्कृतभारतीसंस्थाद्वारा क्रियते। सर्वेषां मुखे संस्कृतम् आगच्छेत् एतदर्थम् उत्तम: प्रयास: प्रशंसनीयोस्ति। कार्यक्रमस्य अध्यक्षतां कुर्वन् मनमोहननौटियालमहोदयः अवदत् यत् गुरुकुलस्य छात्राः संस्कृतस्य अध्ययनं कुर्वन्ति, परन्तु तेषां वाक्-अभ्यासस्य कृते संस्कृतशिबिरस्य आयोजनं कृतम्। येन एते छात्राः समाजं गत्वा सर्वैः सह संस्कृतेन सह संवादं कर्तुं शक्नुवन्ति। पौडीजनपदसंयोजक: कार्यक्रमस्य सञ्चालनम् पंकज ध्यानी कृतवान्। देवभूमिफाउण्डेशन इत्यस्य अध्यक्षः शिवानन्दलखेडा अपि छात्राणां कृते संस्कृतभाषायाः उपयोगितायाः विषये अवदत्। कुलदीपमैन्दोला, शिक्षकरूपेण सिद्धार्थनैथानी, श्रीकान्तदुदपुडी, अरविन्दभट्ट: रोशनबलूनी सहशिक्षकरूपेण संस्कृतगीतानां अभ्यासं च शिक्षणं कृतवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button