संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारदेहरादून
Trending

श्रीशिवनाथसंस्कृत-महाविद्यालयस्य नवीनछात्रावासस्य उद्घाटनं करिष्यति महामहिमराज्यपाल:

सहायकनिदेशकः राज्यपालस्य कार्यक्रमस्य विषये प्राचार्याणां सभां स्वीकृतवान्

• पूर्वराज्यसभासांसद्द्वारा सहायकनिदेशकाय “साक्षात् शिव से संवाद” इति स्वलिखितपुस्तकं प्रदत्तं।

देहरादून। शिक्षा-संस्कृतशिक्षासहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः संस्कृतविद्यालयानाम् महाविद्यालयानाञ्च प्राचार्याणां महत्त्वपूर्णसभां कृत्वा आवश्यकमार्गदर्शिकाः निर्गतवान्।

सहायकनिदेशकः अवदत् यत् ५ जुलै दिनाङ्के श्री शिवनाथसंस्कृतमहाविद्यालये प्रीतम इत्यत्र सांसदनिधितः निर्मितस्य पूर्वराज्यसभासांसदस्य तरुणविजयस्य छात्रावासस्य उद्घाटनसमारोहे महामहिमराज्यपालस्य मुख्यातिथिरूपेण सहभागितायाः कार्यक्रमः निर्धारितः अस्ति । वैभवपूर्णं दर्शनं दातुं अद्य सः मण्डलस्य संस्कृतविद्यालयानां महाविद्यालयानाञ्च प्राचार्याणाम् आवश्यकसभां गृहीत्वा सर्वेभ्यः उत्तरदायित्वं दत्त्वा आवश्यकमार्गदर्शिकाः निर्गतवान्, सभां सम्बोधयन् डॉ. घिलडियालः अवदत् यत् संस्कृतम् राज्यस्य द्वितीया आधिकारिकभाषा अस्ति। तस्या: उत्थानार्थं च केन्द्रराज्यसर्वकाराः निरन्तरं प्रयतन्ते, अस्मिन् प्रकरणे पूर्वसांसद्-तरुणविजयेन स्वस्य सांसदनिधितः ५० लक्षरूप्यकाणां राशिं कृत्वा निर्धनछात्राणां कृते छात्रावासस्य निर्माणं कृतम् अस्ति, यस्योद्घाटनं महामहिमराज्यपालवर्य: 5 जुलैमासे 11:00 वादने करिष्यति । कार्यक्रमसफलतायै शिक्षाविद्भि: एवं संस्कृतप्रेमिजनै: अग्रे भवितव्यं।

सभायां उपस्थितः पूर्वराज्यसभा सांसद्-तरुणविजयः कैलाशमानसरोवरस्य कठिनयात्रायाः सम्बन्धी स्वस्य लिखितं पुस्तकं “साक्षात् शिवसे संवादम्” सहायकनिदेशकं प्रदाय क्रियमाणान् प्रयत्नान् प्रशंसितवान्।

सभायाः अध्यक्षतायां मुख्यशिक्षापदाधिकारी प्रदीपकुमाररावतः अवदत् यत् द्वितीयराजभाषायाः उत्थानार्थं सर्वेषां कृते अभेदभावपूर्णाः प्रयासाः करणीयाः भविष्यन्ति येन ईश्वरस्य भूमिः देववाण्याः सम्मानः भवतु, तदर्थं राज्यपालवर्यस्य कार्यक्रमः सिद्धमानदण्ड: भविष्यति ।

महाविद्यालयस्य प्राचार्य; रामप्रसादथपलियाल: महाविद्यालयपरिवारपक्षत: सर्वेषाम् आगन्तुकानां स्वागतं एवं धन्यवादं कृतवान्।

नवीनछात्रावासस्य उद्घाटने राज्यपालवर्य: मुख्यातिथिरूपेण च संस्कृतशिक्षामन्त्री धनसिंहरावत: अतिविशिष्टातिथिरूपेण विशिष्टातिथिरूपेण तरुणविजय: एवञ्च श्रीखजानदासविधायकवर्यस्य अध्यक्षरूपेण संस्कृतविषये सम्बोधयिष्यन्ति।

गोष्ठ्यां श्री नेपालीसंस्कृतविद्यालय-ऋषिकेशस्य प्राचार्य: डॉ. ओमप्रकाशपुर्वाल:, मुनीश्वरवेदान्तसंस्कृतमहाविद्यालयस्य प्रभारीप्राचार्य: डॉ जनार्दनकैरवान:, श्री गुरुरामरायसंस्कृत- -महाविद्यालयस्य प्रभारीप्राचार्य: डॉ. रामभूषणबिजल्वाण: , अखंडवेदांतसंस्कृतमहाविद्यालयस्य प्राचार्य: आचार्यगंगा प्रसाद जोशी, सनातनधर्मसंस्कृतमहाविद्यालयमसूरीत: प्रभारी प्राचार्या मीनाक्षी, आर्षकन्यागुरुकुलमहाविद्यालयस्य प्रधानाचार्या श्रीमती दीपशिखा, देवभूमिप्राथमिकसंस्कृतविद्यालयस्य प्रधानाध्यापिका कविता मैठाणी, कालीकमलीसंस्कृत- -महाविद्यालय-ऋषिकेशस्य प्राचार्य: डॉ. गिरीशपांडे सहितं गणमान्या: जना: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button