सप्ततितमगढ़वालचषकस्मृतौ राष्ट्रियपदकन्दुकप्रतियोगिता स्वर्गीयशशिधरभट्टराजकीयक्रीडाङ्गणे कोटद्वारे

सप्ततितमगढ़वालचषकस्मृतौ राष्ट्रियपदकन्दुकप्रतियोगिता स्वर्गीयशशिधरभट्टराजकीयक्रीडाङ्गणे कोटद्वारे अभवत् राष्ट्रियपदकन्दुकप्रतियोगिता सप्ततितमगढ़वालसैन्यवाहिनीकस्टमदिल्लीदलयोः मध्ये प्रारम्भः संजायते । गढ़वालस्य प्रख्याततमस्वर्गीयशशिधरभट्टस्मृतौ राष्ट्रियपदकन्दुकप्रतियोगिता सप्ततितमगढ़वालचषकस्मृतिचिह्नक्रीडा स्वर्गीयशशिधरभट्टराजकीयखेलक्रीडाङ्गणे कोटद्वारे तृतीयदिवसे उत्तमं क्रीड़नकौशलं प्रस्तुतं जातं ।
प्रथमस्पर्धायाः मुख्यातिथय: समाजसेवी श्रीवीरेन्द्रसिंहरावतः तथा श्रीअनिलबलूनी चान्ये आसन्। प्रथमं क्रीड़ायुद्धं कण्वसिटीयुनाइटेडकोटद्वारदलस्य तथा न्यूदरबारटिहरीदलस्य मध्ये सम्पन्नम्। अस्मिन् क्रीड़ायुद्धे कण्वसिटीयुनाइटेडकोटद्वार- दलस्य उत्कृष्टं प्रदर्शनं दृष्ट्वा दलः 2-0 इत्यनेन विजयम् अवाप्तवान्।
कोटद्वारदलस्य अङ्कुलः च चारुः च एकैकं लक्ष्यं प्राप्य विजयी भूतौ। प्रथमार्धे 42 निमेशेषु अङ्कुलः प्रथमं लक्ष्यं सम्पादयत्। तदनन्तरं 47 निमेषे चारुः द्वितीयं लक्ष्यं सम्पादयत्, येन 2-0 इत्यनेन विजयः सुनिश्चितः।
द्वितीयं क्रीड़ायुद्धं पौड़ी पैंथर्स तथा दूनसिटीएफसी इत्यनयो: दलयोः मध्ये सम्पन्नम्। अस्य क्रीड़ायुद्धस्य मुख्यातिथिः श्रीसुरेशठाकुरः (एमडी, हिकेनहेल्थकेयरग्रोथसेंटरसिगड्डी कोटद्वारं) तथा श्रीदेवेन्द्रसिंहराणः (उपाध्यक्षः, राज्यफुटबॉलसंघः) इति आसीत्। स्पर्धायाम् अस्यां दूनसिटीएफसीदलस्य क्रीडका: पौड़ीपैंथर्सदलस्य अनुभवीक्रीडकेषु प्रभावं कृत्वा 4-2 इत्यनेन विजयं प्राप्यन्ते।
दूनसिटीदलस्य स्नेहलः 44 निमिषे प्रथमं लक्ष्यं सम्पादयत्। तदनन्तरं 52 निमिषे पीयूषः द्वितीयं लक्ष्यं सम्पादयत्।
पौड़ीपैंथर्सदलस्य गौरवः 54 निमिषे प्रथमं लक्ष्यं सम्पादयत्।
दूनसिटीदलस्य नवीनः तथा पदमः च अत्युत्तमं प्रदर्शनं कृत्वा अपरे लक्ष्ये सम्पादिते, येन विजयः सुनिश्चितः।
चतुर्थे दिवसे विशेषरूपेण आकर्षकं क्रीड़ायुद्धं जातं, यत्र गढ़वाल-रायफल-दलं तथा दिल्लीकस्टमदलमध्ये मुख्यस्पर्धा अभवत् । तदनन्तरं विदेशीक्रीडकै: सज्जितम् अरेवानोएडादलं तथा पौड़ीपैंथर्सदलं मध्ये द्वितीयं क्रीड़ायुद्धं जातं।
अद्यतनस्पर्धायाः निर्णायकाः प्रखरः, रोहितः, शिव: च आसन्।
कार्यक्रमस्य व्यवस्थापकौ ऋतिकः तथा शिवं नेगी च।
क्रीड़ायाः वक्तृत्वं तरुणः इष्टवालः कुशलतया कृतवान्।