संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

पञ्जाबप्रदेशे २० स्थानेषु संस्कृतजिल्लासम्मेलनं भविष्यति

संगोष्ठ्यां मुख्यतः उत्तर-क्षेत्रस्य क्षेत्रीय- सङ्घटन-मन्त्रिः श्रीनरेन्द्रकुमारः, प्रान्तमन्त्रिः संजीवः श्रीवास्तवसहितः पंजाबस्य १२ स्थानेभ्यः कार्यकर्तारः उपस्थिता: आसन्

संस्कृतभारतीपञ्जाबप्रान्तस्य समीक्षायोजनागोष्ठ्या: आयोजनं २६ नवम्बर तथा २७ नवम्बर २०२३ दिनाङ्के श्रीसरस्वतीसंस्कृतमहाविद्यालये खन्नायां अभवत् । संगोष्ठ्यां प्रान्तीयसमितिसहिता: विभागानां विभागसंयोजकाः, जनपदस्य तथा नगरोत्तरदायित्त्ववन्तः कार्यकर्तारः अपेक्षिताः आसन्। संगोष्ठ्यां मुख्यतः उत्तर-क्षेत्रस्य क्षेत्रीय- सङ्घटन-मन्त्रिः श्रीनरेन्द्रकुमारः, प्रान्तमन्त्रिः संजीवः श्रीवास्तवः सहितः पंजाबस्य १२ स्थानेभ्यः कार्यकर्तारः उपस्थिता: आसन्। संगोष्ठ्यां संस्कृतभारतीपञ्जाबप्रान्तस्य गतवर्षस्य कार्यस्य समीक्षां कुर्वन् आगामिवर्षस्य कार्ययोजनायां मुख्यतया जिलासम्मेलनस्य आयोजनं, गीताजयन्ती, प्रत्येकं कार्यकर्तृणां संभाषणशिबिरस्य आयोजनं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनम्, बालकेन्द्रम् इत्यादयः अभवन् तस्य संचालनार्थं व्यवस्थितगोष्ठी आयोजिता आसीत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button