संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

वैश्विकसमस्यानां शान्तिपूर्णसमाधानं वेदेषु

✓ जगति सर्वसमस्यानां समाधानं च शान्ति: वेदै: एव प्राप्यते - डा.रमेशपोखरियाल:'निशङ्कः' ।। ✓ हिमालयनविश्वविद्यालये वेदविश्वशान्तिविषये अन्ताराष्ट्रियसंस्कृतगोष्ठ्याः आयोजनम् ।। ✓ डॉ.रामभूषणबिजल्वाण: संगोष्ठ्यां हिमालयनसंस्कृतगौरवेन सम्मानितोभवत्।। ।।अस्मिन् अवसरे विश्वविद्यालयस्य महाविद्यालयस्य च विभिन्नविभागस्य सर्वे विद्वांश:, शिक्षकाः छात्राः च शोधसंगोष्ठ्यां सम्मिलिता: अभवन् । अन्ताराष्ट्रियगोष्ठ्यां कक्षद्वये तकनीकीसत्रस्य आयोजने ६० प्रतिभागिनः प्रत्यक्षतया स्वपत्राणि पठितवन्त:, ५४ प्रतिभागिनः च अन्तर्जालमाध्यमेन स्वपत्राणि पठितवन्त: ।।

देहरादूनं। देहरादूने हिमालयनविश्वविद्यालये वेदविश्वशान्तिविषये अन्ताराष्ट्रियसंस्कृतगोष्ठ्याः आयोजनम् सञ्जातं। अस्य आयोजनं विश्वविद्यालयस्य संस्कृतविभागस्य, हिमालयस्य आयुर्वेदिकपीजी- चिकित्सामहाविद्यालयस्य आयुर्वेदसंहितासिद्धान्तस्य च संयुक्ताश्रयेण अभवत् । कार्यक्रमस्य आरम्भः स्वर्गाश्रमसंस्कृतविद्यालयस्य वेदपाठीछात्रैः वेदमन्त्रैः कृतः। सर्वप्रथमं हिमालयनविश्वविद्यालयस्य कलामानविकीसंकायस्य निदेशक: तथा आन्तरिकगुणवत्ताकोशसमन्वयक: डा. अनूपबलूनी वेदसन्दर्भे एवं विश्वशान्तिसन्दर्भे विचारान् प्रस्तुतीकुर्वन् विश्वविद्यालयस्य गतिविधिं एवं उद्देश्यम् अपि प्रस्तुतवान्।

विश्वविद्यालयस्य कुलपति: प्रो. काशीनाथजेनवर्य: सर्वेषां आगन्तुकानां स्वागतं कृत्वा वेदान् वसुधैव कुटुम्बकम् आत्मायाः मूलं मन्य शुभकामनाम् व्यक्तं कृतवान्।पतञ्जलिविश्वविद्यालयत: संगोष्ठ्यां कुलपति: प्रो. महावीर-अग्रवाल: वेदेषु निहितज्ञानमूल्यानाम् आधारेण जीवनशैलीं स्वीकृत्य वैदिकविज्ञानस्य अवगमनं अध्ययनं च कृत्वा वेदेषु मौलिकसंशोधनद्वारा नवीनसंशोधकान् विश्वस्य कल्याणाय समुचितकार्यं कर्तुं प्रेरयितुं बलं दत्तवान् ।

कार्यक्रमं सम्बोधयन् विश्वविद्यालयस्य कुलपतिः प्रो.राजेशनैथानी वेदं विश्वस्य सर्वासु संस्कृतिषु मूलं मन्यते स्म, सः वर्तमानकाले सर्वासां वैश्विकसमस्यानां शान्तिपूर्णसमाधानं वेदेषु विद्यते इति उक्तवान्। उत्तराखण्डायुर्वेदविश्वविद्यालयस्य कुलपतिः प्रो. अरुणकुमारत्रिपाठी वेदेषु निहितस्य आयुर्वेदिकचिकित्साव्यवस्थायाः प्राकृतिकचिकित्सायाः महत्त्वं प्रकाशयन् स्वास्थ्यजागरूकतां प्रसारयितुं वैदिक- आयुर्वेदचिकित्साव्यवस्थायाः सर्वेभ्यः प्रचारार्थं च विश्वस्य कल्याणार्थं वेदाः एव इति सम्बोधितवान् । संगोष्ठ्यां वेदसन्दर्भे एवं विश्वशान्तिसन्दर्भे डॉ. सुमनभट्ट:, डॉ. प्रकाशजोशी, डॉ. प्रदीपसेमवाल: एवं अहमदियाडिग्रीकॉलेज- विभागाध्यक्ष: डॉ. जे. न. त्रिपाठी अपि स्व स्व विचारं प्रकटितवन्त: । उद्घाटनसत्रस्य अन्तिमे विश्वविद्यालयस्य कुलसचिव: श्री अरविन्द: अरोड़ा सर्वेभ्यः धन्यवादं दत्तवान्।

समापनसत्रे उत्तराखण्डसंस्कृतविश्वविद्यालयात् वेदपुरोहितविभागप्रभारी डॉ. अरुणकुमारमिश्र:
वेदेषुनिहितज्ञानम् एवं सर्वकल्याणस्य सर्वमंगलस्य च भावना एवं वेदेषु निहितज्ञानद्वारा विश्वकल्याणं विश्वशान्तं परमावश्यकमवोचत् । सहैव महर्षिवैदिकविश्वविद्यालयस्य कुलपति: प्रो.राजा लुईस्, महर्षि-अन्तर्राष्ट्रीय-विश्वविद्यालयस्य AIWA इत्यस्य अमेरिका-निदेशकः डॉ. एलिसनप्लैट् च वेद-विश्वशान्ति-विषये स्व-विचारं प्रस्तुतवन्तौ ।
श्री लक्ष्मणसंस्कृतमहाविद्यालयस्य प्राचार्यः डॉ. रामभूषणबिजलवाण: संस्कृतक्षेत्रे विलक्षणं योगदानाय विश्वविद्यालयेन हिमालयनसंस्कृतगौरवेन सम्मानितोभवत्।
उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. दिनेशचन्द्रशास्त्रीवर्य: वेदस्य महत्त्वं, विश्वशान्तिं, सार्वत्रिकभ्रातृत्वं, विश्वं परिवाररूपेण मन्यमानस्य भावः, वेदस्य अमृततत्त्वानि, ज्ञानस्य प्रवर्धनं च वेदस्य महत्त्वविषये चर्चां कृतवान् । प्राविधिकसत्रे राज्यस्य विभिन्नजिल्हेषु शिक्षकैः शोधकर्तृभिः शोधपत्राणि पठितानि। विश्वविद्यालयस्य कुलपतिः प्रो. प्रदीपभारद्वाजः सर्वेभ्यः शोधकर्तृभ्यः शुभकामनाम् प्रदत्तवान् ।

संगोष्ठ्याः समापनसत्रस्य मुख्यातिथिरूपेण हरिद्वारलोकसभाक्षेत्रस्य वर्तमानसांसदः भारतसर्वकारस्य पूर्वशिक्षामन्त्री च डॉ. रमेशपोखरियाल: ‘निशङ्कः’ वेदविश्वशान्ति-अभियानविषये संगोष्ठ्यां शुभकामनाभिः सह सम्बोधितवान् यत् जगति सर्वसमस्यानां समाधानं च शान्ति: वेदै: एव प्राप्यते । । श्री लक्ष्मणसंस्कृतमहाविद्यालयस्य प्राचार्यः डॉ. रामभूषणबिजलवाण: संस्कृतक्षेत्रे विलक्षणं योगदानाय विश्वविद्यालयेन हिमालयनसंस्कृतगौरवेन सम्मानितोभवत्।

आगन्तुकानां गणमान्यजनानाम् स्वागतं शाल-चिह्न-रुद्राक्ष-वनस्पति-प्रदानेन कृतम् । हिमालयन- आयुर्वेदिकचिकित्सामहाविद्यालयस्य प्राचार्य: डॉ. अनिलकुमार: झा आगन्तुकान् शुभकामनाम् अयच्छत् । महाविद्यालयस्य उपप्राचार्य: डॉ. पुष्परावत:, प्रशासनिक: अधिकारी एवं स्वास्थ्यविज्ञानविभागस्य प्राध्यापक: डॉ. निशांतरयजैन:, इत्यादिभि: शुभकामना: प्रकटिता: । अस्मिन् अवसरे विश्वविद्यालयस्य महाविद्यालयस्य च विभिन्नविभागस्य सर्वे शिक्षकाः छात्राः च उपस्थिताः आसन्। अन्ताराष्ट्रियगोष्ठ्यां कक्षद्वये तकनीकीसत्रस्य आयोजनं कृतम्। यस्मिन् ६० प्रतिभागिनः प्रत्यक्षतया स्वपत्राणि पठितवन्त:, ५४ प्रतिभागिनः च अन्तर्जालमाध्यमेन स्वपत्राणि पठितवन्त: ।
कार्यक्रमस्य त्रीणि सत्राणि कार्यक्रमस्य संयोजकाः क्रमशः डॉ. नवीनजसोला, डॉ. सुभाषचन्द्रबडोला च सफलतया सम्पादितवन्तः।

कार्यक्रमस्य अन्ते डॉ. आनन्दजोशी आगन्तुकानां अतिथीनां प्रतिभागिनां च आभारं प्रकटितवान्। प्रबन्धक: श्रीहरीशनवानी, तकनीकीसमन्वयक: श्री मोहितपोखरियाल:, कर्नैलसिंह:, जनार्दनभट्ट: चादय: कार्यक्रमं सफलं कर्तुं विशेषयोगदानं दत्तवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button