संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वार

पद्मश्रीजागरणसम्राड्प्रीतमभरतवाणस्य गीते देवा: समागता: । रामागमनेन सम्पूर्णे देशे भारतमातु: जय: -“उत्तराखण्डविधान-सभाध्यक्षा ऋतुभूषणखण्डूरी”

बसन्तमहोत्सवे सम्पूर्ण: कण्वाश्रम: अभवत् नृत्ये मग्न:

।कोटद्वारं। प्रतिवर्षम् इव अस्मिन् वर्षे अपि बसन्तपञ्चम्या: अवसरे कण्वनगरीकोटद्वारे कण्वाश्रमक्षेत्रे भव्यकार्यक्रमस्य आयोजनं अभवत्। यत्र प्रसिद्धजागरणसम्राट् एवं पद्मश्री प्राप्तकर्ता प्रीतमभरतवाण: एवं कोटद्वारविधायिका तथा च उत्तराखण्डस्य प्रथममहिलाविधानसभाध्यक्षा श्रीमती ऋतुभूषणखण्डूरी इत्यनयोरेव मातु: सरस्वत्या: समक्षे दीपं प्रज्ज्वाल्य कार्यक्रमस्य उद्घाटनं कृतं । महोत्सवस्य आयोजनसहयोगी राजगौरवनौटियालः मञ्चे अतिथिनां परिचयं कृतवान् तथा सतीशदेवरानी स्वागतसंचालनं कृतवान् । प्रीतमभरतवानेनापि एवं विधानसभाध्यक्षयापि पुष्पगुच्छप्रदानेन परस्परं सम्मानितं। कोटद्वारस्य गणमान्यजनाः जनसामान्यं च रमाकान्तकुकरेती, रोशनबलूनी, राकेशकण्डवाल: तथा गणमान्यजनाः अपि मञ्चे सम्मानितानां अतिथिनां स्वागतं कृतवन्तः। अस्मिन् अवसरे उत्तराखण्डस्य प्रसिद्धः लोकगायकः प्रीतमभरतवाण: स्वस्य प्रसिद्धैः गीतैः प्रेक्षकान् आकृष्टवान् । तस्य प्रसिद्धगीतं “सरुली मेरु जिया लगी गे” इत्यनेन बसन्तमहोत्सवे सम्पूर्ण: कण्वाश्रम: अभवत् नृत्ये मग्न: । भरतवाणस्य जागरणगीते
जनेषु देवाः प्रकटिता: , जागरशैल्याः च स्वरौ तस्य गीतेषु नृत्यं कुर्वन्ति स्म । ढोलसागरस्य ताडनेन सः स्वस्य सङ्गीतस्वरैः प्रेक्षकान् मोहितवान् ।

भरतराज्ञ: जन्मस्थले कण्वनगरीकोटद्वारस्य मालिनद्याः तटे विश्वप्रसिद्ध: कणवाश्रम: अद्यापि बसन्तोत्सवम् आचरति।प्रतिवर्षम् अस्य क्षेत्रस्य जनाः, नेतारः च एतत् कार्यक्रमं विविधैः कार्यक्रमैः अग्रे नेतुं प्रवृत्ताः सन्ति।

बुधवासरे आयोजितस्य बसन्तपञ्चमी महोत्सवस्य अवसरे विविधाः सांस्कृतिककार्यक्रमाः अपि आयोजिताः अभवन् येषु शिक्षकराकेशकण्डवालस्य निर्देशने टेक्नोमाइण्ड् इत्यस्य छात्राः अपि योगप्रस्तुतिं दत्तवन्तः। महर्षिपतञ्जलियोगसमित्याः च कार्यक्रमे अनेके विद्यालयाः अपि भागं गृहीतवन्तः। तथा चात्र विभिन्नसांस्कृतिककार्यक्रमा: अपि अभवन्। महोत्सवे उपस्थितान् सर्वान् जनान् सम्बोधयन् श्रीमती ऋतुभूषणखण्डुरी जयश्रीरामस्य जयघोषम् आरम्भं कृत्वा उत्तराखण्डं देवभूमिः इति उक्तवती, अत्र सर्वकारेण जनसेवायै यत् कार्यं क्रियते तेन भारतस्य जय: भवति इति अस्माकं भारतगौरवं जनयति । सा अवदत् यत् देशे बहुवर्षेभ्यः परं रामः गृहम् आगतः। रामागमनेन सम्पूर्णे देशे भारतमातु: जय: भवति। स्थानीयसमस्यानां विषये सा घोषितवती यत् कोटद्वारनगरं भाबरं च संयोज्यसेतुः शीघ्रमेव स्थायिसमाधानं प्राप्स्यति यतः एषा समस्या दीर्घकालं यावत् वर्तते यस्य कृते कार्यं प्रचलति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button