संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वार

वसन्तपञ्चम्या: शुभावसरे सरस्वतीपूजनं हवनकार्यक्रमश्च

रितेशशर्मासरस्वतीविद्यामन्दिरे जानकीनगरकोटद्वारे वसन्तपञ्चम्या: शुभावसरे पौडीगढ़वाले हवनयज्ञस्य आयोजनम् अभवत् । कार्यक्रमसंयोजकः रोहितबलोदी इत्यनेन उक्तं यत् ज्ञानस्य देवीसरस्वत्याः जन्मदिवसस्य अवसरे पूर्ववर्षाणाम् इव विद्यालये हवनपूजाकार्यक्रमस्य आयोजनं कृतम्। विद्यालयप्रबन्धक: राजेन्द्रजखमोला, मुख्यारम्भकर्ता राधेश्यामशर्मा एवं मीनाक्षी शर्मा, अनिलभटनागर: एवं राहुलभटनागर: एवं विद्यालयस्य प्राचार्य: मनोजकुकरेती कार्यक्रमस्य उद्घाटनं कृतवन्त: । तदनन्तरं विद्यालयस्य भ्रातृभगिनीभिः लोकनृत्यं लोकगीतं च प्रस्तुतम् । षष्ठकक्षाया: भगिनीभि: सरस्वतीवन्दना, सप्तमकक्षाया: भगिनीभि: ‘हे नन्दा हे गोरा’ इति गीतं प्रस्तुतं , अष्टमकक्षाया: भ्रातृभि: “ठण्डो रे ठंडो” लोकगीतं प्रस्तुतं । अवसरेस्मिन् उपप्राचार्य: अनिलकोटनाला, राहुलभाटिया, शिवरामबडोला, राजनकुमारशर्मा, मोहनसिंह:, देवेन्द्रकुमार:, चंद्रप्रकाश:, संगीता रावत:, मधुबाला नौटियाल:, संगीता कुकशाल:, नन्दिनी नैथानी, सरोजनेगी, राकेशचमोली आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button