संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीतालसंस्कृत भारती

संस्कृतम् अस्माकं जीवनम् अस्ति सर्वा: भाषा: संस्कृतात् एव समुद्भूता: सन्ति – “प्रान्ताध्यक्षा श्रीमतीजानकीत्रिपाठी”

महादेवगिरिशिवमन्दिरे संस्कृतसम्भाषणशिबिरस्य समाप्तिः

बुधवासरे नवाबीमार्गे महादेवगिरिशिवमन्दिरे १० दिवसीयस्य संस्कृतसम्भाषणशिबिरस्य समाप्तिः अभवत् । दीपप्रज्वलनेन कार्यक्रमस्य आरम्भः अभवत् । कार्यक्रमे छात्रद्वयं शिविरस्य स्वस्य अनुभवं प्रस्तुतवन्तौ। प्रीतिः अभिनयगीतं गीतवती।
प्रान्तसहमंत्री डॉ. चन्द्रप्रकाश उप्रेती महोदय: मुख्यवक्तारूपेण सर्वान् सम्बोधितवान् स: प्रोक्तवान् यत् वयं यदि प्रतिदिनं संस्कृतेन वदाम: तु समाज: अपि संस्कृतेन सम्भाषणं कर्तुं शक्नोति । अत: अस्माभि: समाजे अपि संस्कृतेन सम्भाषणं करणीयं ।

श्रीमहादेवगिरिसंस्कृतमहाविद्यालयस्य प्राचार्यः डॉ नवीनजोशी महोदय: सर्वान् प्रेरितवान् आशीर्वादं च दत्तवान्। संस्कृतभारत्या: प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी महोदया अध्यक्षीयभाषणं कृतवती तया प्रोक्तं यत् संस्कृतम् अस्माकं जीवनम् अस्ति सर्वा: भाषा: संस्कृतात् एव समुद्भूता: सन्ति ।

शिबिरशिक्षक: डॉ. कैलाशचन्द्रसनवालमहोदयेन सर्वेषां धन्यवादज्ञापनं कृतम्। कार्यक्रमस्य कुशलसञ्चालनं जनपदसम्पर्कप्रमुख: डॉ. हेमन्तजोशी महोदय: कृतवान्। कार्यक्रमे शिबिरस्य छात्राः अन्ये च गणमान्यजनाः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button