संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

मतदानम् अस्माकं अधिकार: अस्ति वयं अवश्यमेव स्वकीयमतस्य उपयोगं कुर्म:-“रोशनगौड:”

मतदातृणां शतप्रतिशतं प्रतिभागं कर्तुं अभवत् जनजागरणं

उत्तराखण्ड।पौड़ी।आगामीलोकसभासामान्यनिर्वाचनस्य -2024 वर्षस्य प्रत्येकमतदातृणां शतप्रतिशतं प्रतिभाग: भवेत् तदर्थं उत्तराखण्डस्य पौड़ीजनपदेपि जनजागरणाय विद्यालयेषु अपि मतदाताशपथं च जागरणकार्यक्रम: जायमान: विद्यते। भागं सुनिश्चितं कर्तुं श्रीमान् जिलाधिकारी महोदय: / जिला निर्वाचनाधिकारी पौड़ी गढ़वालं तथा मुख्यविकासाधिकारी पौड़ी गढ़वालं / अधिकारी निर्वाचनायोगस्य अनुसारेण दिशानिर्देशं प्रयच्छन्ति।

तदनुसारेण एव 13 मार्च 2024 दिनांके चौबट्टाखालविधानसभाया: अन्तर्गतं जनतावरिष्ठमाध्यमिकविद्यालयसुरक्षेत्रस्य राष्ट्रीय सेवायोजनाया: तथा निर्वाचनसाक्षरतासमिते: छात्रछात्राभि: विशेषनिर्वाचनायोगस्य निर्वाचनपर्व:, देशस्य गर्व: उच्चविचारेण सह जनजागरुकताकार्यक्रम: समाचरित: ।

छात्रै: जयघोषै: सूक्तिपट्टिकाभि: सह सोत्साहेन शोभायात्रारूपेण भ्रमणम् अपि कृतं। विद्यालयस्य प्रधानाचार्य: तथा कार्यक्रमाधिकारी श्री पुष्करसिंहनेगी तथा इण्टर-कॉलेज-इन्दिरापुरी इत्यत: केन्द्रीयकार्यक्रमाधिकारी श्री रोशनलालगौड़: अस्य जनजारूकताकार्यक्रमस्य मार्गदर्शनं कृतवन्त: । तै: छात्रै: सह मतदाताजागरूकतायात्रा विद्यालयत: ग्रामधरासूपर्यन्तं शोभायात्रा समाचरित: ।

अवसरेस्मिन् छात्राणां परिवारसदस्यानां निर्वाचने 100 प्रतिशतं मतदानलक्ष्यस्य संदेशेन सह 62 जनान् अनिवार्यरूपेण मतदानं कर्तुं शपथम् अपि प्रदत्तं । कार्यक्रमाधिकारिणा रौशनगौडवर्येण अत्र निर्दिष्टं यत् मतदानम् अस्माकं अधिकार: अस्ति वयं अवश्यमेव स्वकीयमतस्य उपयोगं कुर्म: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button