संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपौड़ी

जनतावरिष्ठमाध्यमिक-विद्यालयसुरक्षेत्रेण उत्तराखण्डस्य लोकपर्वपुष्पदेहल्या: शुभारम्भ: कृत:

🔵विद्यालयस्य प्रधानाचार्यस्य पुष्करसिंहनेगीवर्यस्य च संस्कृतशिक्षकरोशनलालगौडस्य मार्गदर्शने पुष्पगीतं गायन् छात्राणां दलं प्रतिद्वारं समर्पयन्ति पुष्पाणि ।।

देवभूमे: उत्तराखण्डस्य लोकपर्व पुष्पदेहल्या: अवसरे जनतावरिष्ठमाध्यमिकविद्यालयसुरक्षेत्रस्य छात्रा: रणस्वाग्रामस्य प्रत्येकं गृहं गत्वा ग्रामवासिनां द्वारे पुष्पं समर्प्य ग्रामसमृद्धे: एवं स्वास्थ्यस्य तथा तेषां कुटुम्बजनानाम् सुखकामनां कृतवन्त: । विद्यालयस्य प्राचार्यपुष्करसिंहनेगीवर्यस्य तथा संस्कृतशिक्षकरोशनलालगौडस्य मार्गदर्शनेन हस्ते पुष्पस्य आधानिकां गृहीत्वा पुष्पगीतं गायन् छात्राणां दलं विद्यालयेन सेविते रणस्वाग्रामं प्रतिद्वारं गत्वा पुष्पाणि अर्पितानि ।

अस्मिन् अवसरे ग्रामजनान् सम्बोधयन् प्रधानाध्यापकः पुष्करसिंहनेगी अवदत् यत् हिन्दुपञ्चाङ्गानुसारं चैत्रमासस्य आरम्भः मार्चमासस्य १४ / १५ दिनाङ्कात् भवति तथा च एषा संक्रान्तिः उत्तराखण्डे पुष्पदेहलीरुपैण अथवा पुष्पार्पणोत्सवरूपेण आचर्यते। अयं उत्सवः प्रकृतेः प्रति कृतज्ञतायाः, ऋतुवसन्तस्य स्वागतस्य च उत्सवः अस्ति । पुष्पदेहलीविषये सूचयन् सः अवदत् यत् माध्यमिकशिक्षानिदेशकः महावीरसिंहविष्टः विगतवर्षेषु अस्य उत्सवस्य संरक्षणाय, आनन्देन च आयोजयितुं निरन्तरप्रयत्नं कुर्वन् अस्ति। तस्य प्रयत्नेन पुष्पदेहली उत्तराखण्डसर्वकारेण उत्तराखण्डस्य बालपर्व इति घोषितम् अस्ति ।

आचार्य: रोशनलालगौड: अपि ग्रामजनान् स्वसंस्कृतेः संरक्षणार्थं अग्रे आगन्तुं निवेदितवान्। विद्यालयस्य सेवानिवृत्त: प्रधानाचार्य: राजेसिंह नेगी बालकानां कृते जलपानव्यवस्थां कृत्वा स्व-आशीर्वादं दत्तवान्। अवसरेस्मिन् विद्यालयस्य प्रबन्धनसमिते: पूर्वाध्यक्षा सुनीता नेगी, गोदम्बरी देवी, सुमित्रा देवी, देवेश्वरी देवी, विशम्बरी देवी, राजेश्वरी देवी, कमला देवी एवं विद्यालयछात्रा: आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button